Book Title: Dashvaikalika Sutram Author(s): Haribhadrasuri, Publisher: Shripalnagar Jain S M P Trust View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailasagarsun Gyanmandir ॥ सम्पादकीयम्॥ सम्पादकीयम श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् ॥७॥ आ-समन्तात् गम्यते मोक्ष प्रति येन स आगमः । देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकंटीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य इदं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। A चतुर्दशपूर्वधर श्रीशय्यंभवसूरिवर्यैः स्वपुत्रशिष्यस्याराधनायै यत्सूत्रं रचितं तद्दशवैकालिकम् । आयरियाणं बुद्धी समुप्पन्ना इमस्स थोवर्ग आउं, किं कायव्वंति? तं चउदसपुवी कम्हिवि कारणे समुप्पन्ने णिहति, दसपुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहड़ ममंपि इमं कारणं समुप्पन्नं, तो अहमवि णिहामि, ताहे आढत्तां णिजूहिउँ । इत्यालम्बनेन विकाले अर्थात् तृतीयपोरूष्यां तत्रापि बह्वतिक्रान्तायां अथवा वियाले णिजूढा थोवावसेसे दिवसे उत्पन्नं तस्मात् वैकालिकम् तथा अध्ययनानां दशप्रकारत्वात् दश इति दशवैकालिकम् । अस्मिन् ग्रन्थे मुख्यतया साधूनामाचार उक्तः । चत्वारि अध्ययनानि पाठयित्वा उपस्थापना क्रियते तथा पश्चिम पिण्डेषणाऽध्ययनमध्यापयित्वैव गोचरचर्याया अधिकारः। कहं चरे कह चिट्टे सूत्रद्वारेण श्रामण्यमुपदर्शितं भवति । तस्मिन् सूत्रे समासत: श्रमणत्वस्य सारमुपदिष्टम् । षष्ठे महाचारकथाऽध्ययने गोचरप्रविष्टेन साधुना स्वाचारं न विस्तरतः कथयितव्य इति निरूपणमस्ति । सप्तमे वाक्यशुद्ध्यध्ययने आचारः निरवद्यवचसा कथयितव्यस्तस्मात् निरवद्यभाषा कीटशी भवतीति निरूपणमस्ति । अष्टमे आचारप्रणिध्यध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति दर्शितम् । नवमे विनयसमाध्यध्ययने आचारे प्रणिहितो कीशो विनयसंपन्नो भवतीति प्ररूपितम् । दशमेसभिश्वध्ययने नवस्वध्ययनेषु निरूपितार्थेषु यो व्यवस्थितः स सम्यग्भिक्षुरिति प्रतिपादितम् । अन्ते इडशोऽपि भिक्षुः कर्मपरतन्त्रत्वाद् । ॥७॥ For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 466