Book Title: Chaturvinshatiprabandha
Author(s): Rajshekharsuri, Hiralal R Kapadia
Publisher: Harsiddhbhai Vajubhai Divetia

View full book text
Previous | Next

Page 274
________________ चतुर्विंशतिप्रबन्धे [ २४ भीमस्तुपाठ चत्वारिंशदधिकशतं देवार्याः, सप्तलक्षमनुष्याः, इदं प्रथमयात्राप्रमाणम् । अग्रेतना तदधिका ज्ञेया । यथा चतुरशीतिस्तडागाः सुबद्धा: । चतुःशती चतुःषष्ट्यधिका वापीनाम् । पाषाणमयानि द्वात्रिंशद् दुर्गाणि । चतुः षष्टिर्मशीतयः । एवं लौकिकमपि कृतं मनो विनाऽपि । तथा दन्तमय जैनरथानां चतुर्विंशतिः । विंशतिशतं शाकघटितानाम् | एकविंशत्याचार्यपदानि कारितानि । सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिबिरुदानि भाषितानि कविजनैः । श्रीवस्तुपालस्य दक्षिणस्यां दिशि 'श्री' पर्वतं यावत् पश्चिमायां 'प्रभासं' यावत् उत्तरस्यां 'केदार' पर्वतं यावत् पूर्वस्यां 'बाराणसी' १० यावत् तयोः कीर्तनानि श्रूयन्ते । सर्वाप्रेण त्रीणि कोटिशतानि चतुर्दश लक्षा अष्टादश सहस्राणि अष्ट शतानि द्रव्यव्ययः पुण्यस्थाने । त्रिषष्टिवान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यावृत्तिः । २५८ - 'बिरुदानि २४ वस्तुपालस्य, तद्यथा- प्राग्वाटज्ञात्म१५ लङ्करण १ सरस्वतीकण्ठाभरण २ सचिवचूडामणि ३ कूर्चाकसरस्वती ४ सरस्वतीधर्मपुत्र ५ लघुभोजराज ६ षण्डेरातु ७ दातारचक्रवर्ति ८ बुद्धि अभयकुमारु ९ रूपि कंदर्पु १० चतुरिमा चाणाक्यु ११ ज्ञाति वाराहु १२ ज्ञाति गोपाल १३ सैदवंशक्षयकालु १४ सांखुला रायमाद मर्दनु १५ मज्जाजैन १६ गम्भीरु २० १७ धीरु १८ उदार १९ निर्विकारु २० उत्तमजनमाननीयु २१ सर्वजनमाननीयु २२ शान्तु २३ ऋषिपुत्रु २४ ॥ ॥ इति 'श्रीवस्तुपालप्रबन्धः ॥ २४ ॥ श्री ' प्रश्नवाहन 'कुले 'कोटिक' नामनि गणे जगद्विदिते । श्री ' मध्यम' शाखायां 'हर्षपुरीया' ऽभिघे गच्छे ॥१॥ १ ग - 'पवनदे' । २ 'बिरुदानि० ऋषिपुत्रु २४ इति पाठाधिकता - प्रतामेव । ३ - ' पाळतेजःपालयोः प्रबन्धः ।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322