Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text ________________
अनुसन्धान ४५
॥ श्री बीबीपुरमण्डनश्रीचिन्तामणि पार्थनाथचैत्यप्रशस्तिः॥
सं. मुनिसुयशचन्द्र-सुजसचन्द्रविजयौ आई०॥ महोपाध्याय श्री६ सत्यसौभाग्यगणिगुरुभ्यो नमः ।। निःप्रत्यूहमुपासतां कृतधियः श्रीपार्श्वचिन्तामणे
रुत्फुल्लोत्पलभासि वासितजगत्पादद्वयं सद्गुणैः । साम्राज्यं विदधात्यसद्विषदलं प्रास्ताखिलोपप्लवं,
यो द्वैराज्यकथामपि त्रिभुवने निर्मूलमुन्मूलयत् ॥१॥ [शार्दूल०] उद्धर्त्ता जगतीत्रयीमिति विदन् जिहाय भोगीश्वर
श्छेत्ता ध्वान्तचमूमहर्निशमिति स्पष्टं च घस्त्रेश्वरः । कल्प्याकल्प्यपदार्थसार्थमसकृद् दातेति देवद्रुमो,
यस्मिन् जातवति क्षितौ स भगवान् श्रीआश्वसेनिः श्रिये ॥२॥ [शार्दूल०] मातङ्गाश्वर्तुचन्द्र(१६७८)प्रमितशरदि तौ मानतुङ्गाख्यमेनं,
प्रासादं वर्द्धमानः ससृजतुरतुलं शान्तिदासश्च शुभ्रम् । भास्वद्वीबीपुरे सत्तपगणतरणीपार्श्वचिन्तामणेर्यं,
श्रीमहांगीरराज्ये युवनृपतियुते तस्य कुर्मः प्रशस्तिम् ॥३॥ [स्रग्धरा०] अस्ति स्वस्तियुतः प्रशस्तकमलाचेतोविनोदास्पदं,
देश: पेशलकौशलप्रविलसल्लोकाद्भुतो गुर्जरः । यस्यैकैकगुणं परे जनपदाः स्वीकृत्य तं तं यशः
प्रारभारं जननिर्मितं गुणनिधेरासेदिवांसः स्फुटम् ॥४॥ [शार्दूल०] अस्मिनुद्दामधामद्विजपतिवदनादर्शनक्षुभ्यदन्त
वृत्तिस्वाहाशनौघायाव) गणिततविषऽहिम्मदावादसज्ञः । भाति द्रङ्गः सरङ्गः कथयति जनता चन्द्रबिम्बेऽत्र यस्या
ऽत्युच्चप्रासाददण्डाहतिभवविवराकाशदेशं कलङ्कम् ॥५॥ [स्रग्धरा]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24