Book Title: Bibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Author(s): Suyashchandravijay, Sujaschandravijay
Publisher: ZZ_Anusandhan
View full book text ________________
२४
अनुसन्धान ४५
य: सौभाग्यनिधिः क्षितीशसदसि प्राप्तप्रतिष्ठोऽन्वहं,
मत्तानेकप-चञ्चलाश्वविलसद्राजप्रसादोल्वणः । निःशेषाङ्गिसमूहदुःखविलयस्फूर्जत्सुखं(ख)प्रापणो
धुक्तोऽसौ जयताच्चिरादहिमदावादोल्लसद्भूषणम् ॥४२॥ [शार्दूल०] शान्तिदासस्य जयतात्, कोऽपि शौर्यार्णवो नवः ।
मिथ्यात्वौर्वानलबलं, शमयत्यैष यत्कलौ ॥४३॥ [अनुष्टुप्] . किञ्च- सन्निधौ शान्तिदासस्य, सर्वकार्यधुरन्धरौ ।
वाघजी-कल्याणसझौ, जीयास्तां साधुसिन्धुरौ ॥४४॥ [अनुष्टुप्] किञ्च- इभतुरगनृप[१६७८] मितेऽब्दे, प्राप्ताभ्यां भाग्यवत्परमकाष्ठाम् । .
साक्षाच्चतुर्दिगागत-विभवैर्द्ध(ध)नदायमानाभ्याम् ||४५|| [आर्या] सश्रद्धवर्धमान-श्रद्धाकमनीयशान्तिदासाभ्याम् ।
सुकुटुम्बाभ्यां ताभ्यां, गृहद्भ्यां सम्यगुपदेशम् ॥४६।। [आर्या] व्याख्यासुधोदधीनां, पवित्रचारित्रचारुचरितानाम् ।
अवदातबुद्धिबेडा-तीर्णागमतोयराशीनाम् ॥४७॥ [आर्या] छात्रीकृतधिषणानां श्रीश्रीसौभाग्यसद्गुरुवराणाम् ।
मुखकमलात्केसरमिव, सुवर्णरुचिरं मनःप्रीत्या ॥४८॥ [आर्या] श्रुत्वा विहारनिर्मिति-सम्भवफलनिकरसङ्गमोत्कर्षम् ।
बीबीपुरगृह्यायां प्रासादः कारयामासे ॥४९॥ पञ्चभिः कुलकम् [आर्या] यस्मिस्तोरणपुत्रिका अनुकृतस्व:सुन्दरीविभ्रमाः,
के के न स्पृहयन्ति वीक्ष्य जनिताशंसा भुवि?(व?)श्शर्मणे । द्वारे यस्य च पञ्चपत्रमतुलं प्रासादरक्षाविधौ,
___ दक्षं भाति चतुश्चतुष्ककलिते देवद्रुकल्पं कलौ ॥५०॥ [शार्दूल०] उच्चैः सोपानपङ्क्तिः शिवगतिगमनं प्राणिनां व्यञ्जयन्ती,
साक्षात् श्रीपार्श्वभर्तुश्चरणसरसिजद्वन्द्वसेवापराणाम् । यस्य प्रारब्धसङ्गीतकनिकरलसद्वामपाञ्चालिकाली
च्छाच्छनाप्सरोभि शमुपदिशत: स्वर्गसद्वर्णिकां द्राक् ॥५१॥ [स्रग्धरा]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24