SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ २४ अनुसन्धान ४५ य: सौभाग्यनिधिः क्षितीशसदसि प्राप्तप्रतिष्ठोऽन्वहं, मत्तानेकप-चञ्चलाश्वविलसद्राजप्रसादोल्वणः । निःशेषाङ्गिसमूहदुःखविलयस्फूर्जत्सुखं(ख)प्रापणो धुक्तोऽसौ जयताच्चिरादहिमदावादोल्लसद्भूषणम् ॥४२॥ [शार्दूल०] शान्तिदासस्य जयतात्, कोऽपि शौर्यार्णवो नवः । मिथ्यात्वौर्वानलबलं, शमयत्यैष यत्कलौ ॥४३॥ [अनुष्टुप्] . किञ्च- सन्निधौ शान्तिदासस्य, सर्वकार्यधुरन्धरौ । वाघजी-कल्याणसझौ, जीयास्तां साधुसिन्धुरौ ॥४४॥ [अनुष्टुप्] किञ्च- इभतुरगनृप[१६७८] मितेऽब्दे, प्राप्ताभ्यां भाग्यवत्परमकाष्ठाम् । . साक्षाच्चतुर्दिगागत-विभवैर्द्ध(ध)नदायमानाभ्याम् ||४५|| [आर्या] सश्रद्धवर्धमान-श्रद्धाकमनीयशान्तिदासाभ्याम् । सुकुटुम्बाभ्यां ताभ्यां, गृहद्भ्यां सम्यगुपदेशम् ॥४६।। [आर्या] व्याख्यासुधोदधीनां, पवित्रचारित्रचारुचरितानाम् । अवदातबुद्धिबेडा-तीर्णागमतोयराशीनाम् ॥४७॥ [आर्या] छात्रीकृतधिषणानां श्रीश्रीसौभाग्यसद्गुरुवराणाम् । मुखकमलात्केसरमिव, सुवर्णरुचिरं मनःप्रीत्या ॥४८॥ [आर्या] श्रुत्वा विहारनिर्मिति-सम्भवफलनिकरसङ्गमोत्कर्षम् । बीबीपुरगृह्यायां प्रासादः कारयामासे ॥४९॥ पञ्चभिः कुलकम् [आर्या] यस्मिस्तोरणपुत्रिका अनुकृतस्व:सुन्दरीविभ्रमाः, के के न स्पृहयन्ति वीक्ष्य जनिताशंसा भुवि?(व?)श्शर्मणे । द्वारे यस्य च पञ्चपत्रमतुलं प्रासादरक्षाविधौ, ___ दक्षं भाति चतुश्चतुष्ककलिते देवद्रुकल्पं कलौ ॥५०॥ [शार्दूल०] उच्चैः सोपानपङ्क्तिः शिवगतिगमनं प्राणिनां व्यञ्जयन्ती, साक्षात् श्रीपार्श्वभर्तुश्चरणसरसिजद्वन्द्वसेवापराणाम् । यस्य प्रारब्धसङ्गीतकनिकरलसद्वामपाञ्चालिकाली च्छाच्छनाप्सरोभि शमुपदिशत: स्वर्गसद्वर्णिकां द्राक् ॥५१॥ [स्रग्धरा] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229275
Book TitleBibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size471 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy