SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ क्षेत्रेषु सप्तसु सदा वपतः स्वसारं, लक्षप्रमं कृपणदीनजनेषु चोच्चैः । यस्योद्भवोऽनुभवति प्रविलासिकीर्त्या, शुभ्रीकृतत्रिभुवनस्य फलेग्रहित्वम् ॥३३॥ [वसन्त०] आराध्नोति प्रकामं प्रथितगुणगण: पौषधैः पञ्चपर्वी, कुर्वन् ब्रह्मव्रतेन स्वममलकिरणं सर्वसच्चित्तवर्जी । बिभ्रत्सम्यक्त्वरम्यारुणगणित(१२)लसद्धामगेहिव्रतानि, प्रोच्चैर्यो वर्द्धमानः स जयतु सततं श्रीनिवासैकभूमिः ॥३४॥ [स्रग्धरा] शान्तिदासगृहिणी रमणीया-नामतोऽपि विशदा भुवि रूपा । सूनुरद्भूतगुणोदधिरासी-न्मूर्तभाग्यनिधिवत्पनजीकः ॥३५॥ [स्वागता] तस्य शस्य कुमुदोज्ज्वलकीर्तेः, प्रस्फुरद्विनयमञ्जुलमूर्तेः । देवकीति दयिता दलिताघा, सद्विवेककलितान्तरभावा ॥३६॥ [स्वागता] धत्से सखे ! मनसि किं कलिकालचिन्तां, रे दुःषमे ! किमु दधासि च दु:खितां त्वम् । विघ्ना भयं व्रजथ किं ? ननु किं न वेत्सि ?, ___ जातोऽस्मदुन्नतिहरो भुवि शान्तिदासः ॥३७॥ [वसन्त०] गुणिनि गुणज्ञे गुणवति, दानिनि मानिनि च वैरिणां सदसि । कृतकृतयुगचरितेऽस्मिन्, कलिकालः कालवदनोऽभूत् ॥३८॥ [आर्या] प्राप्तः स वणिज्यायै, स्याहपुरेऽचीकरत् कनडदेशे । श्रीहीरविजयसूरेः, सपादुकं स्तूपमिभरस [१६६८]मितेऽब्दे ॥३९।। गीतिः श्रीशत्रुञ्जयतीर्थे, मूलार्चा परिकरं महसनाथम् । यः प्रत्यतिष्ठिपदति-प्रमदान्नन्दतु [१६६९]गणितेऽब्दे ॥४०॥ गीतिः बाणाश्वराज [१६७५] मितविक्रमवत्सरेऽलं, यात्रां विशुद्धविधि सिद्धगिरेविधाय । सार्द्धं सुसङ्घनिकरैर्भरतेशवद्यो, द्रव्यव्ययेन भुवि सङ्घपतिर्बभूव ॥४१॥ [वसन्त०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229275
Book TitleBibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size471 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy