SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ २५ आद्योऽसौ मेघनादस्तत इह विदितः सिंहनादो द्वितीयः, सूर्यान्नादस्तृतीयो विशदतररमो रङ्गनामा तुरीयः । खेलाख्यः पञ्चमोऽयं तदनु च गदितो गूढगोत्रेण षष्ठो, यत्रे(त्रै)ते मण्डपाः षट् वसतय इव सद्धर्मभूभृद्गुणानाम् ।।५२।। [स्रग्धरा] प्रासादो जिनसद्मभिः प्रविलसत्शृङ्गैर्द्विपञ्चाशता, व्याप्तश्चारुचतुर्मुखार्हतगृहैर्युक्तश्चतुर्भिस्तथा । तावद्भिर्धरणीगृहैर्जिनबृहदिम्बान्वितैश्चोल्बणः, सामन्तादिभिरावृतो नृप इव स्वैरं स्थितः संसदि ।।५३॥ [शार्दूल०] भातोऽर्हत्प्रतिमाभिः प्रत्येकं यस्य देवकुलिकाभिः ।। अभ्रंलिहशिखराम्रौ वृतौ विहारौ चतुर्मुखौ शश्वत् ॥५४॥ गीतिः द्विरदारूढौ दानं, ददतौ कस्य न मुदे विहारकृतोः । जनकः सहस्रकिरणो वाछानामा पितामहश्चोभौ ॥५५|| गीतिः विन्ध्यो लक्ष्म्याऽतिवन्धोऽनिमिषगिरिरसौ नो गुरुर्न त्रिकूटः, प्रोच्चैः कूटस्तुषाराचल उपल इव भ्रस्यदाभः सुनाभः । कैलासोऽसद्विलासो भवति नयनसत्प्रीतिदेऽस्मिन् विहारे, मध्याह्नेऽशोस्तुरङ्गा यमिव सपदि नो द्रष्टुकामा व्रजन्ति ? ॥५६।। [स्रग्धरा] कुर्वाणोऽसुमतां सदाऽनिमिषतां द्रष्टुं समागच्छता(तां), तन्वानोऽमृतसङ्गमाद्भुतसुखानाराधकानङ्गिनः । शङ्के निर्जरयानतो दलगणं सङ्गृह्य यन्निर्मितः, प्रासादः प्रसरत्प्रभः समभवत् तदाग् [तद् द्राग्] विमानं ततः ॥५७॥ [शार्दूल०] किञ्च- प्रासादनिर्मापणजातभाग्य-प्रकर्षसम्भूतसमृद्धिभाजः । श्रीशान्तिदासस्य महप्रधाना वर्तन्त एते दिवसास्समन्तात् ।।५८|| [इन्द्रवज्रा] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229275
Book TitleBibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size471 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy