SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४५ ॥ श्री बीबीपुरमण्डनश्रीचिन्तामणि पार्थनाथचैत्यप्रशस्तिः॥ सं. मुनिसुयशचन्द्र-सुजसचन्द्रविजयौ आई०॥ महोपाध्याय श्री६ सत्यसौभाग्यगणिगुरुभ्यो नमः ।। निःप्रत्यूहमुपासतां कृतधियः श्रीपार्श्वचिन्तामणे रुत्फुल्लोत्पलभासि वासितजगत्पादद्वयं सद्गुणैः । साम्राज्यं विदधात्यसद्विषदलं प्रास्ताखिलोपप्लवं, यो द्वैराज्यकथामपि त्रिभुवने निर्मूलमुन्मूलयत् ॥१॥ [शार्दूल०] उद्धर्त्ता जगतीत्रयीमिति विदन् जिहाय भोगीश्वर श्छेत्ता ध्वान्तचमूमहर्निशमिति स्पष्टं च घस्त्रेश्वरः । कल्प्याकल्प्यपदार्थसार्थमसकृद् दातेति देवद्रुमो, यस्मिन् जातवति क्षितौ स भगवान् श्रीआश्वसेनिः श्रिये ॥२॥ [शार्दूल०] मातङ्गाश्वर्तुचन्द्र(१६७८)प्रमितशरदि तौ मानतुङ्गाख्यमेनं, प्रासादं वर्द्धमानः ससृजतुरतुलं शान्तिदासश्च शुभ्रम् । भास्वद्वीबीपुरे सत्तपगणतरणीपार्श्वचिन्तामणेर्यं, श्रीमहांगीरराज्ये युवनृपतियुते तस्य कुर्मः प्रशस्तिम् ॥३॥ [स्रग्धरा०] अस्ति स्वस्तियुतः प्रशस्तकमलाचेतोविनोदास्पदं, देश: पेशलकौशलप्रविलसल्लोकाद्भुतो गुर्जरः । यस्यैकैकगुणं परे जनपदाः स्वीकृत्य तं तं यशः प्रारभारं जननिर्मितं गुणनिधेरासेदिवांसः स्फुटम् ॥४॥ [शार्दूल०] अस्मिनुद्दामधामद्विजपतिवदनादर्शनक्षुभ्यदन्त वृत्तिस्वाहाशनौघायाव) गणिततविषऽहिम्मदावादसज्ञः । भाति द्रङ्गः सरङ्गः कथयति जनता चन्द्रबिम्बेऽत्र यस्या ऽत्युच्चप्रासाददण्डाहतिभवविवराकाशदेशं कलङ्कम् ॥५॥ [स्रग्धरा] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229275
Book TitleBibipur sthit Chintamani Parshwanath Jinalayni Prashasti
Original Sutra AuthorN/A
AuthorSuyashchandravijay, Sujaschandravijay
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size471 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy