Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 82 अनुसन्धान ३९ निशि वियोगवती युवती गृहे, विधुमवेक्ष्य नभोऽङ्गणमध्य[गम् || [स] समानय दर्पणमाशु मे, क्षुरिकया सह चेति कथं जगौ ॥ २१ ॥ दहति मामयमेणभृदातुरां, चरति चाऽलि ! दवीयसि पुष्करें । तदमुकं मुकुरान्तरुपागतं, क्षुरिकया प्रैविभेत्तुमिदं जगौ ॥२२॥ मातुर्निजायाः पदपद्मयुग्मं नत्वोपविष्टः पुर एकदन्तः । पस्पर्श मूर्द्धानमसौ करेण, कस्मादकस्माद् वद कोविन्द्र ! ||२३|| गौरीपदाम्भोजयुगप्रजाता - रुणत्वरक्तीकृतमीक्ष्य भूतलम् । स्वकुम्भसिन्दूरजोभिशङ्कया, मूर्द्धानमेष स्पृशति स्म तेन ॥ २४ ॥ सुदति पृच्छति भर्त्तरि 'गद्यता- मितरदेशगतोऽभिमतं तव । अहमिह प्रहिणोमि किमादरात्, तदनु साम्भसि किं तिलमक्षिपत् ॥ २५ ॥ तिलकयोर्व्यतिषङ्गवशादसौ, तिलकमेव निवेदयति स्म तम् । इतरथा कथमेव जले तिलं, क्षिपति मन्त्रिप ! कं परनामनि ॥२६॥ कश्चिद् युवा युवतिवक्त्रमवेक्ष्यमाणो, नाऽहं विलोचनयुगो धृतिभाग् भवामि । एवं विचिन्तयति चेतसि तावदासीत्, सद्यः स कोविद वदाशु कथं षडक्षः ||२७|| स स्वकीयनयनद्वयमध्ये, बिम्बितप्रियतमानयनोऽभूत् । एवमेव सचिवेश्वर ! सद्य, सोऽभवन्त्रयनषट्कसमेतः ॥२८॥ तदभिलषितकान्तोपान्ततोऽभ्यागताशु, स्ववगततदभिप्राया" समागत्य दूती । तरुणमरुणरश्मिस्पृष्टपङ्केरुहास्यं, जनवृतमभि दृष्ट्वा सर्षपं तत्करेऽदात् ॥ २९ ॥ शीघ्रमेव समागत्य दूत्याऽथ कृतकृत्यया । सर्षपस्यैव दानेन सिद्धार्थोऽसीति सूचितम् ||३०|| अभ्यर्णमभ्येत्य" हरेः स्वभर्तुः, प्रसन्नचित्ता परिरम्भणाय । जगाम कस्माच्चटुवादिनोऽपिं 1 Jain Education International पराङ्मुखी सत्वरमेव पद्मा ॥३१॥ १. ब. ख्रे । २. ब. चन्द्रं । ३. ब. विदारयितुं । ४. ब. सति । ५. ब. इति इति त्वया । ६. ब. ईप्सितं । ७. ब. प्रेंखयामि ( प्रेषयामि ? ) । ८. ब. अलुकामासः । ९. ब. षड् अक्षीणि यस्य नयनानां षट्कं तेन । १०. ब. अनेन प्रकारेण । ११. ब. शोभनोऽवगतस्तस्या अभिप्रायो यया सा । १२. ब. समीपमागत्य । १३. ब. चटुचाटुप्रियप्रायं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17