Book Title: Bhav Pradip Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 5
________________ 80 अनुसन्धान ३९ 'प्रभूतभूतिप्रविभूषिताङ्गकः, प्रध्वस्तकामः समकामदः सदा । प्रभुर्विभूनामपि मङ्गुलार्गलः, स मङ्गलं रातु वृषध्वजो विभुः ॥२॥ पञ्चाननाङ्कितजगत्प्रभुपादसेवी, श्रीमद्विलोलविकसत्करपुष्कराग्रः । विघ्नौघपाटनपटुः कटुकष्टकृट् च, निर्मातु मङ्गलगणं गुणवान्गणेशः ॥३।। नमः समाजस्थितसज्जनेभ्यः, प्रसन्नचित्ताननपङ्कजेभ्यः । परप्रणीतान्यपि ये वचांसि, स्वभावभेदैः परिभूषयन्ति ॥४॥ श्रीविक्रमाख्ये नगरे गरिष्ठः, प्रज्ञाप्रपञ्चेऽस्तितमां पटिष्ठः । मन्त्रप्रयोगे प्रथितप्रतिष्ठः, श्रीकर्मचन्द्रः सचिवो वरिष्ठः ॥५॥ तत्प्रार्थनाजातपरप्रमोदः, स्वान्तस्य तस्यैव विनोदहेतोः । कुर्वे नवीनं कमनीयकाव्य-र्भावप्रदीपाभिधशास्त्रमेतत् ॥६॥ श्रीवत्सराजान्वयमौलिरत्नं, संग्रामसिंहस्य तनूजराजः । श्रीराजसिंहाभिधभूपमित्र, श्रीकर्मचन्द्रः सचिवः स जीयात् ।।७।। न हि निखिलशास्त्रबोधो मतिरपि विमला न तादृगभ्यासः । किन्तु कवित्वे शक्तिशुरुरेक: कारणं मेऽत्र ||८|| सस्नेहमुत्सङ्गनिवेशितोऽम्बयाँ, वक्षोजविध्वस्त-महेभकुम्भया । शीर्ष गणेशः खलु शङ्कया कया, पस्पर्श विद्वन् ! वद पृच्छ्यते मया ।।९।। कुम्भावुभावपि ममाङ्कगतस्य मातुलग्नाववश्यमिति वक्षसि शैशवे [स:]* | (शाङ्कासमाकुलितचित्तमिभाननः स्वौ, कुम्भौ करेण झटिति स्पृशति स्म तेन ॥१०॥ काचिच्चञ्चललोचना नववधूः प्रातर्मुखं दर्पणं, पश्यन्ती शिथिलालकं पतिरतिप्राग्भीर-संसूचकम् । २. ब. प्रचुर । ३. ब. समग्रं सकलं सममिति । ४. ब. मंगुलशब्दो देश्यः, मंगुलस्य अशोभनस्य अर्गलेति, कल्याणः । ५. ब. कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोरित्यमरः । ६. ब. प्रती 'मन्त्री' इति पाठान्तरम् । ७. ब. केवलः । ८. अ. ब. पार्वत्या । ९. अ.ब. तिरस्कृतौ । १०. अ.ब. आधिक्यं । ११. अ.ब. कथकं । *-[ ]अ. पुस्तके भग्नपत्रत्वादत्र कोष्ठकान्तर्गतांशो ब. पुस्तकादुद्धृतः । एवमग्रेऽपि सर्वत्र कोष्ठकान्तर्गतांशाः ब. पुस्तकादेवोपन्यस्ता ज्ञेया । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17