Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 17
________________ अनुसन्धान 39 इति सुललितभावं शास्त्रमेतत्स्वकण्ठे, प्रणयति' निपुणो यः सन्ततं सत्सभासु / अनुभवति स शोभामुल्लसन्तीमनन्तां, न भवति परभावव्यग्रचेताः कदापि // 117 / / श्रीदेवतिलकसूरिर्जयति यशःपूरपूरितदिगन्तः / नरनरपतिमुनिमधुकरचुम्बितचरणारविन्दयुगः // 118 // / श्रीनर्मदाचार्यगुरोः प्रसादात्, श्रीपद्मराजस्य पदौ प्रणम्य / श्रीकर्मचन्द्राह्वययाञ्चयेदं, श्रीहेमरत्नेन कृतं च शास्त्रम् // 119 / / सद्वाक् शुभार्थः सुगुणः सुवृत्तो-ऽलङ्कारकान्तः शुभभावशाली / परोपकारप्रवणः स चाऽयं, ग्रन्थश्चिरं जयति सज्जनवज्जगत्याम् // 120 / / मुष्णाति चेतांसि स भूपतीनां, पुष्णाति चातुर्यमपि स्वकीयम् / मनाति मानं ननु दुर्जनानां, यः कण्ठपीठस्थमिदं करोति // 12 // इति श्रीभावप्रदीपाभिधं शास्त्र समाप्तं / श्रीरस्तु / शुभम्भवतु / श्रीः / विक्रमतो वसुवह्निक्षितिपतिवर्षे (1638) तथाऽऽश्विने मासि / विजयदशम्यामयमिति विनिर्मितो हेमरत्नेन // 1 // * [श्रीज्ञानतिलकसूरिर्जयति यशोराशिभासितदिगन्तः / नरनरपतिमुनिमुनिवरपूजितपादारविन्दयुगः // 1 // तत्पट्टे हेमरत्नाह्वसूरिर्जयतु शास्त्रकृत् / विनिर्वसितपापौघः प्रसन्नानपङ्कजः // 2 // 1. ब. निर्माति / 2. ब. प्रेती- 'ग्रन्थश्चिरं तिष्ठतु सज्जनोपि' इति पाठः / 34-5. ब. नास्ति / 6. ब. प्रतौ 'विजयदशम्यामेतद् विनिर्मितं हेमरत्नेन' इति पाठः / 7. [ ] कोष्ठकान्तर्गती द्वावपि श्लोकौ हेमरत्नस्वलिखितादर्श अ.संज्ञकपुस्तके न स्तः / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17