Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan
View full book text
________________
ओप्रिल-२००७
RE
सद्यः प्रेक्ष्य मनोभवोपममिदं साऽपि द्रवत्वं गता
सम्भोगः प्रथमस्तयोरिति गतः सिद्धि न तत्र क्षणे ॥५०॥ परस्परं रूपविमोहितौ तौ, गतौ द्रवत्वं समकालमेव ।
ततस्त्रपाभारभरावभूता-मन्योन्यमेतेन न सङ्गसिद्धिः ।।५१।। पाठान्तरम् भर्तुर्वियोगेन विषण्णचित्ता, 'काचित् कुरङ्गीनयना निशीथे । उद्वेजकं सर्वमपीति मत्वा, कस्मात्करानेणभृतः सिषेवे ।।५।। तत्राप्येते शशधरकरो मत्पतेरङ्गसङ्गं,
कुर्वन्त्येव ध्रुवमिति वधूश्चेतसि स्वे विचिन्त्य । तानत्रापि स्वपतिवपुषाऽऽलिङ्गितानिन्दुपादान् ,
प्रेष्ठान्कष्टादपि विरहिणी चक्रवाकीव भेजे ॥५३|| नैशसन्तमससञ्चयराहु - ग्रस्तदृक्प्रसरपङ्क्तिहयोऽपि । कोऽप्यचित्रितमपीह, सचित्रं, हस्तमैक्षत समस्तमिदं किम् ॥५४|| किमत्र चित्रं गगने निशायां, हस्तं स चित्रायुतमप्यपश्यत् । विचार्यते किं मुहुरेष चार्थो, दृष्टोऽपि नित्यं बहुभिः स्वनेत्रैः ॥५५।। जित्वा रिपबलमखिलं समिति झटित्येव कर्मचन्द्र ! त्वम् । धृतजयलक्ष्मीकोऽपि हि, नाऽतुष्यस्तत्र को हेतुः ? ||५६।। अधिकसूरतया समरोत्सवं, रचयतस्तव वीतमिमं क्षणात् । सचिवशेखर ! तेन जिताप्यभू-न्न रतिदा रतिदापि पताकिनी ॥५७|| युवा कोऽपि प्रातर्विषमविशिखो -द्वेजितमना
अमुञ्चद् बन्धूकप्रसवमुडुपास्यामभिमताम् । ततः साऽपि प्राप्य प्रियहृदयभावं स्मितमुखी,
हरिद्रामेवामुं कथय किममुञ्चत् कविवर ! ॥५८॥ बन्धूकपुष्पेन स मध्यमह्नः, संकेतहेतोः कथयाम्बभूव । सा दर्शयामास हरिद्रयाऽथो, दोषामदोषामिति मन्त्रिराज ! ॥५९|| १. ब, बभूवतुः । २. ब. पाठान्तरेण । ३. ब. सती । ४. ब. उद्वेगकारकं । ५. ब. चन्द्रमाः कुमुदबान्धवो दशश्वेतवाज्यमृतसूस्तिथिप्रणीः । ६. ब. अन्धकारं । ७. पंक्तिशब्दो दशवाची, पंक्तिहया: यस्य । ८. ब. संग्रामे । ९. ब. बाणाः, विषमविशिखा यस्यासौ कामदेवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17