Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ अनुसन्धान ३९ मौनं मानभवं विचार्य तरुणीति स्वे ललाटेऽकरो च्चित्रं तेनं निवेदितं स्फुटतरं जीवेति वाक्यं यतः १४०|| कश्चित्तृषार्तो मतिमानिदाघे, हस्तस्थनीरोऽपि. निजालयस्थः । किं शून्यमालोक्य पपौ न वारि, ब्रूतात् कवे ! तद्यदि बुध्यसे त्वम् ॥४१॥ दृष्ट्वाऽऽकाशं शून्यमृक्षेन्दुसूर्यैः, सायं नाऽयं नीरपानं चकार । विश्वव्यापिप्रोज्ज्वलश्लोकराशे !,' वर्यं वार्यत्राऽखिलैर्यन्मुनीशैः ॥४२॥ कश्चिद्विनीतो नयविद्गृहस्थो, 'निर्दम्भमालोक्य गुरुं पुरस्तात् । नाभ्युत्थितो नाऽपि गतः समीपं, ननाम नासीन्न तथापि निन्द्यः ॥४३।। वियति जीवमुदीक्ष्य समुद्गतं, न - नमितः स निजं न तु सद्गुरुम् । सचिवशेखर ! तेन स ना जनै-नयरतैरपि नैव विहितः ॥४४|| काचित्कुरङ्गीनयना निशाया-मात्माननस्पर्द्धिनमिन्दुमुच्चैः । आलोक्य भूस्थाऽपि कुतूहलाय, जग्राह हस्तेन कथं वदाऽऽशु ॥४५।। दर्पणान्तः प्रविष्टं सा रोहिणीरमणं निशि । तरसा करसाच्चक्ने कौतुकेनैव कामिनी ॥४६॥ गगनसरसि हंसीभूत एणाङ्कबिम्बे ऽभिमतरमणधिष्ण्या-म्भोजभृङ्गीभवित्री । अपि पथि जनयुक्ते स्वैरिणी किं प्रयान्ती, नयनविषयमेषा न प्रयाता जनानाम् १४७|| धृतसिताम्बरभूषणलेपना, "कुमुदराजिविराजितविग्रहों । धवलिते शशिनाऽखिलभूतले, न कुलटेति गता पथि लक्ष्यताम् ॥४८|| कश्चित् कथञ्चिनिजचित्तचारी, लब्धः सुमाल्याम्बरभूषणोऽपि । भुक्तः स नो वासकसज्जयाऽपि, नाऽसावपीमां बुभुजे किमेतत् ॥४९॥ कान्तारूपमतीवसुन्दरमलङ्कारैरलं भूषितं, दृष्ट्वा मन्मथमूच्छितः स तरुणश्चक्रे स्वशुक्रच्युतिम् ।। १. चित्रकरणेन । २. यशस्विन् । ३. ब. निष्कपटं । ४. ब. जीवं । ५. ब. आकाशे। ६. ब. निन्दितः । ७. ब. वेगेन । ८. ब. कराधीनं करसात् । ९. ब, गृहं । १०. ब. अमृगी भृङ्गी भविष्यति । ११. ब. श्वेते तु तत्र कुमुदम् । १२. ब. इन्द्रियायतनमङ्गविग्रहाविति । १३. ब. भवेद्वासकसज्जासौ सज्जिताङ्गतालया । निश्चित्यागमनं भर्तु रेक्षणपरा यथा । १४. ब. शुक्रं रेतो बलं वीर्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17