Book Title: Bhav Pradip
Author(s): Vinaysagar
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 14
________________ अप्रिल २००७ वसन्तेऽप्यायाते गलदवधिरेष प्रियतमः, समायातो नेति स्फुटितहृदया सा यदि मृतां । तदा किं हर्म्येण ध्रुवमथ यदा सा न च मृता, तदाप्यस्त्रेहायां कुतमिह गृहेणेति वलितः ॥ ९१ ॥ ८ पौरा रदानेव पुरःसराणौ-मालोकयामासुरिभेश्वराणाम् । नाङ्गानि कस्माद् ददृशुः कदाचित् किं चात्र चित्रं वद कोविदाशु ॥९२॥ विसृत्व राजपथे निशायां, बंहीयसी संतमसेन नागाः । लक्षत्वमेते न गताः सदृक्त्वाद्दन्तास्तु दीप्तिं दधुरुज्ज्वलत्वात् ॥९३॥ जग्धुं समायातमपि स्वधान्यं, न त्रासयामेणगणं बभूवुः । केदारगोप्यः कथमेष चापि नाऽऽदात् क्षुधार्तोऽपि हि शालिसस्यम् ॥९४॥ केदारगोपी कलगानमग्ना, जक्षुः कुरङ्गा न हि शालिसस्यम् । ता अप्यतोप्यऽक्षिदिदृक्षयापि न त्रासयामेणगणं बभूवुः ॥ ९५ ॥ कश्चिद्रतः काञ्चनमेव लातुं कृत्वाऽपि वित्तं निजहस्तमध्ये । बध्वा रज: पोट्टलिकां स गेहे, समागतः किं वद चित्रमेतत् ॥ ९६ ॥ वित्तं कराद्व्यग्रतयाऽस्य मार्गे, पपात धूलीपिहिते ततः सः । तत्रत्यधूलीपटलं प्रमील्य तच्छोधनायाशु गृहं निनाय ॥९७॥ तनुसुतनुरिरंसुः कामधामोज्ज्वल श्री रुषसि गृहवनान्तर्गन्तुकामाप्यवश्यम् । अनुवलति ततः स्म व्यग्रकेशाकुलाक्षी, - सचकितमिति कस्माच्चिन्त्यमेतद् वदाशु ॥९८॥ गृहवनमुपयाति यावदेषा, भ्रमरगणोऽभिमुखं दधावे तस्याः । वदनसुरभितानुबद्धलोभः प्रतिवलति स्म ततो झटित्यमुष्मात् ॥ ९९|| 7 Jain Education International 89 १. अ. मुई तस सनेही गई रही तउ तुट्टउ नेह । जिणि परि तिणि परि धण गई वरसि सुहावा मेह । २. ब. प्रतौ तथाप्यस्नेहायामिति पाठः । ३. ब. अलं । ४. ब. अग्रे गच्छतां । ५. अ. ब. प्रसरणशीलो । ६. ब. प्रचुरेण । ७. ब. सवर्णत्वात् । ८. ब. भक्षयामासुः । ९. ब. संवृत्तं पिहितं छत्रं । १०. ब. क्रीडितुकामाः । ११. ब व्यस्त इति इति वा । १२. सन्मुखं जगाम । १३. अ. वनात्; ब. अस्मात् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17