Book Title: Bhav Pradip Author(s): Vinaysagar Publisher: ZZ_Anusandhan View full book textPage 6
________________ अप्रिल २००७ एकान्तस्थितिमाश्रिताऽपि च पराङ्गक्त्राऽपि भूरित्रपा वीचिव्यूहेनिमग्नचित्तचटुला कस्मादकस्मादभूत् ॥११॥ पृष्ठस्थितस्य निजजीवितवल्लभस्य, वक्त्रारविन्दममलं मुकुरे समीक्ष्य । श्री कर्मचन्द्रसचिवेश्वर ! तेन चैषा [लज्जावती नव]वधूः सहसा बभूव ॥ १२ ॥ काचित्कुलीनवनिता रमणेन दूर-देशात् सुकङ्कणयुगं प्रहितं निरीक्ष्य | निःश्वासदग्धदशनच्छदै[माप्तदुःखा], [गूढं रुरोद वद कोविद किं निदानम् ॥१३॥ नाथः स मां विरहवह्निकृशां न वेत्ति, नाऽसावपीह विरहा [तुरचित्तवृत्तिः " 1 [नो चेत् कथं पृथुलकङ्कणयुग्ममत्र ] मां मुञ्चतीति विगणय वधू रुरोद || १४॥ काचिन्निजं कान्तमवेक्ष्य कोप- कल्लोल [ मग्नावनताननाऽभूत् ] । [तत्कारणं पृच्छति सत्यमुष्मिन्], [किं दर्पणं तस्य] करे [ ददौ सा] ॥ १५ ॥ अन्याङ्ग[नानय]नपङ्कजचुम्बनेन, कृष्णाधरस्ति [लकचित्रितभालदेशः ] । (अप्येष पृच्छति रुडुद्भवहेतुमस्मात् सा दर्पणं वितराति स्म करे तदीये ||१६|| [काचिन्निजे भर्त्तरि दूरदेशं सम्प्रस्थिते तत्कुशलेषिणी सा [गच्छाऽऽशु भाऽभूत्तव] दर्शनं मे, शीघ्रं वधूरेवमुवाच कस्मात् ||१७|| तद्यानं-माकर्ण्य मृतामवश्यं मुक्त्वा [ समायाति तदेत्य वj || [मा दर्शनं मेऽस्तु ] ततो मृताया, नाथस्य शीघ्रं बहुजीवितस्य ॥ १८ ॥ पूर्णाङ्कमुखी - महं हृदि मम त्रस्तैणशावेक्षणे, [त्वामद्यैव विभावयामि च निजप्राणप्रिये स्वप्रियाम् । इत्थं जल्पति हास्यपेशल - मथो सा स्वं करेण द्रुतं, गल्लं फुल्लमधूकपुष्पपुलिनं पस्पर्श वस्त्रेणें [ किम् ॥ १९ ॥ पूर्णे चन्द्रमसि ध्रुवं" बत भवत्येव स्फुटं लाञ्छनं, नाऽस्मद्वक्त्रसरोरुहेऽतिविमले कालुष्यलेशोऽपि च तज्ज्ञाने खलु सोपमान[ वचसाऽनेनाऽधुना कज्जलं, गल्लेऽस्तीति ममार्ज" लोलनयना हस्तेन गल्लस्थलम् ||२०|| १२ Jain Education International १. अ.ब. बह्वी । २. अ.ब. समूहं । ३. ब. दन्तपत्रम् । ४. ब. गुप्तम् । ५. अ. पीडितव्यापारः । ६. ब. विचार्य । ७. ब. भर्त्तरि । ८. अ. गमनम् । ९. ब. चारु । १०. ब. अङ्ककलङ्कोऽभिज्ञानम् । ११. ब. जानामि । १२. ब. भर्त्तरि । १३. ब. मनोहरं । १४. ब. कृत्वा । १५. ब. सह । १६. ब. निश्चितम् । १७. ब. मृजूष् शुद्धौ । For Private & Personal Use Only 81 www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17