Book Title: Bhagvatisutra Avachuri
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 10
________________ श्री भगवती सूत्र ॥४॥ Jain Education Internationa अथ कालसमययोः कः प्रतिविशेषः ? 'काल' इति कालसामान्यं गृह्यते, 'समय' इति कालविशेषः, सामान्यकालस्तु अवसर्पिण्याश्चतुर्थो विभागः समयस्तु कालविशेषः, यत्र भगवान् समवसृतो धर्मकथां करोति तस्मिन् नमये राजगृहं नाम नगरं “होत्यत्ति" अभवत् तस्मिन् काले तन्नगरमेवं वर्त्तितवत्' । ननु इदानीमपि वर्त्तते एव, न, यथावर्णकग्रन्थविभूत्या तदैव वर्त्तिवत् गुणशिलकं चैत्यम् - चितिसामान्याचैत्यं - व्यन्तरगृहं न भगवतामर्हतामायतनमिति । राजा च श्रेणिकः, चेल्लना च देवी, तदाऽनेन वणकग्रन्थवर्तितेन रूपेण वर्त्तते । अथ 'होत्था' इति किमतीतकालवाचिना शब्देन निर्देशः क्रियते ? उच्यते यतः यदैतनगरराजादिवस्तु तद् भगवता सुधर्मस्वामिना भगवत्कथनकाले साक्षोद्द्दष्टं जम्बूनामस्वामिना (नः) प्रश्ननिर्वचनकाले तु तदतीतम्, अतीतत्वाच्च अतीतकालवाचिनैव शब्देनाऽऽख्यायते, यथा कृतयुगे एवं जगदवस्था वृत्तवतीति 'ते णं काले ते णं समए णं समणे भगवं महावीरे' श्रमण इति प्रतिपन्न - चरित्रत्वात् श्रमण इत्युच्यते, प्रातिपदिकार्थमात्राचिकयातु प्रथमया प्रधानविभक्त्या निर्दिष्टः, आत्मसत्त्वानुपालनवृत्तः, भगवानिति पूज्यः, वीरो विक्रान्तःपुरुषकारातिशयवृत्तः, कथम् ? परीषहेन्द्रियकषायादिजयात्, वीरत्वेन निरतिशयत्वात् महान्, अतो महांश्रासौ १-२ वृत्तवत् इति स्यात् इडप्राप्तेः । ३. नितरामतिशयो निरतिशयः, सातिशयत्वादिति यावत् । For Private & Personal Use Only अवचूरिः www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 248