Book Title: Bhagvatisutra Avachuri
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री भगवती
अवचूरिः
सूत्र
भव्यानां शरणार्थिनां शरणं-त्राणं ददातीति शरणदः सद्धर्मदेशनेन ।
'धम्मदेसरणं ' इति, धर्म देशयति-कथयतीति धर्मदेशकः ।
'धम्मसार हीए णं' इति-धर्मस्य सारथिः, धर्मसारथिः, यथा रथस्य सारथी रथं, रथिकं, अश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशात् धर्मसारथिर्भवति ।
'धम्मवरचाउरतचक्कवट्टीए णं' इति-धर्मावरचातुरन्तचक्रवर्ती । धर्मस्य चत्वारो अन्ताः-दानमयः शीलमयः, तपोमयः, भावनामय इति, तेभ्यः परस्यान्यस्य धर्मस्याभावात् , अतस्ते अन्ताः। यथा चक्रवर्ती राजातिशयः, एवं धर्मोऽपि धमोपदेष्टणां सर्वराजानामन्यतीर्थकराणां (अतिशयः) तदीयस्य शासनस्याज्ञाया:स्याद्वादस्य केनचिदनिवर्तित्वात, अप्रतिहतमानसः चक्रवर्ती भवति, चक्रं तु चक्रवर्तिनामायुधरत्नम् , एवमन्यधर्मेभ्यो धर्मरत्नं सर्वप्राण्यहिंसात्मकम् , तदेव चक्रम् । यथा चक्रवत्ती चक्रेण सर्वशत्रु छिनत्ति, एवं भगवानपि तेन धर्मचक्रेण सर्व कर्मरिपुं छिनत्ति इति धर्मवरचातुरन्तचक्रवर्ती ।
'अप्पडिहय' इत्यादि-ज्ञानं दर्शनं च ज्ञानदर्शने, वरे च ते ज्ञानदर्शने वरज्ञानदर्शने, वरत्वं तु अप्रतिहतत्वात् , १. पा. छा. त्रय समुद्राः चतुर्थश्च हिमवान् एते चत्वारः पृथ्व्यन्ताः एतेषु (स्वामितया) भवतीति चातुरन्तः कोऽसौ ?
चक्रवर्ती विशेष्यते, स च राजातिशयः परश्वासौ चातुरन्तचक्रवत्ता च यथा पृथयां वरचातुरन्तचक्रवत्तों ।
॥७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 248