SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवचूरिः सूत्र भव्यानां शरणार्थिनां शरणं-त्राणं ददातीति शरणदः सद्धर्मदेशनेन । 'धम्मदेसरणं ' इति, धर्म देशयति-कथयतीति धर्मदेशकः । 'धम्मसार हीए णं' इति-धर्मस्य सारथिः, धर्मसारथिः, यथा रथस्य सारथी रथं, रथिकं, अश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशात् धर्मसारथिर्भवति । 'धम्मवरचाउरतचक्कवट्टीए णं' इति-धर्मावरचातुरन्तचक्रवर्ती । धर्मस्य चत्वारो अन्ताः-दानमयः शीलमयः, तपोमयः, भावनामय इति, तेभ्यः परस्यान्यस्य धर्मस्याभावात् , अतस्ते अन्ताः। यथा चक्रवर्ती राजातिशयः, एवं धर्मोऽपि धमोपदेष्टणां सर्वराजानामन्यतीर्थकराणां (अतिशयः) तदीयस्य शासनस्याज्ञाया:स्याद्वादस्य केनचिदनिवर्तित्वात, अप्रतिहतमानसः चक्रवर्ती भवति, चक्रं तु चक्रवर्तिनामायुधरत्नम् , एवमन्यधर्मेभ्यो धर्मरत्नं सर्वप्राण्यहिंसात्मकम् , तदेव चक्रम् । यथा चक्रवत्ती चक्रेण सर्वशत्रु छिनत्ति, एवं भगवानपि तेन धर्मचक्रेण सर्व कर्मरिपुं छिनत्ति इति धर्मवरचातुरन्तचक्रवर्ती । 'अप्पडिहय' इत्यादि-ज्ञानं दर्शनं च ज्ञानदर्शने, वरे च ते ज्ञानदर्शने वरज्ञानदर्शने, वरत्वं तु अप्रतिहतत्वात् , १. पा. छा. त्रय समुद्राः चतुर्थश्च हिमवान् एते चत्वारः पृथ्व्यन्ताः एतेषु (स्वामितया) भवतीति चातुरन्तः कोऽसौ ? चक्रवर्ती विशेष्यते, स च राजातिशयः परश्वासौ चातुरन्तचक्रवत्ता च यथा पृथयां वरचातुरन्तचक्रवत्तों । ॥७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy