________________
भी भगवती
| अवचूरि
antonomoMEROLORDDHRDadbia
यथा गन्धहस्तिनो गन्धेनैव सवें गजा नश्यन्ति, एवं भगवतो गन्धेनैव तद्देशे विहरणेन ईति-परचक्र-दुर्मिक्ष-जन (हमर) मरकादीनि सर्वाण्येवाशुभानि नश्यन्तीत्यतः पुरुषवरगंधहस्ती ।
'लोकना हे ण :ति-तीर्थकरनामकर्मोद यजनितेन प्रभुत्वेन त्रयाणामपि लोकानां स्वामित्वाल्लोकनाथः । _ 'लोकपई वे णं' इनि-प्रदीपयतीति प्रदीपः, यथा प्रदीपः समस्तगृहवृत्तानां प्रद्योतकरः, तममां विनाशकत्वात् गृहप्रदीपः, एवं भगवान लोकत्रयवृत्तानां भव्यानां मिथ्यादर्शनतमोविनाशकत्वाल्लोकप्रदीपः।
'लोकप जोअगरे थे' इति-समस्तलोकवृत्तानां भावानां केवलज्ञानेन प्रकाशकत्वात् गृहप्रदीप२ एवं (इव) भगवाँल्लोकालोकं प्रद्योतयतीत्यर्थः।
'अभयदए ३ इति-पडविधस्यापि जीवनिकायस्य अभयं ददातीत्यभयदः ।
'चक्खदए थे' इति, चक्षुर्ददातीति चक्षुदः चक्षुस्तु श्रुतज्ञानम् , यथा चक्षुषा शुभाशुभानर्थान् विभजते, एवं श्रुतज्ञानेनापि शुभाशुभानर्थान विभजत इति, चक्षुरिब चक्षुः-श्रुतम् ।
'मग्गदए ण'३ इति, मार्गददातीति मार्गदः-सम्यग्दर्शनज्ञानचारित्रत्रयात्मकमोक्षमार्गदायकत्वात् मार्गदः।
'सरणदए थे'३ इति-शरणं ददातीति शरणदः-शरणं तु भीतस्य त्रागम् , एवं भगवान् संसारभयत्रस्तानां १. छा. पा. यदेशे। २. पा. छा. 'गृहप्रदीप एवं भगवान्' इत्येतन्नास्ति । ३. "अभयदए, मग्गदए, सरणदए" इत्यत्र अभयदेवसूरिकृतटोकायां न भयं दयते इति अभयदयः, मार्ग दयते इति मार्गदयः, शरणं दयते इति शरणदयः इति व्युत्पत्ति ः कृता।
For Private Personel Use Only
॥६॥
Jan Education Intema
www.jainelibrary.org