SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ श्री भगवती अवचूरिः वीरस्स(च) महावीरः, यस्माद्गुणात् त्रिदशैः कृतमहावीरसंज्ञः। 'आइगरे' इति-श्रुतधर्मस्याऽऽदिकर्ता-श्रुतज्ञानस्य धर्मस्य स्वाध्यायस्य ग्रन्थात्मकस्वात् तस्य प्रथमप्रणेतवादादिकरः। 'तित्थगरे' इति-तरन्ति तेन संसारसागरमिति ज्ञानदर्शनचारित्रत्रयं तस्य कतत्वात्तीर्थकरः। 'सहसंबुद्धे' इति, आत्मनैव (सह) सम्बुद्धः नत्वन्येनोपदेशकेन (सह) सम्बुद्धः, स्वयम्बुद्धः इत्यर्थः । 'पुरिसुत्तम' इति, शेषपुरुषाणां तेन तेनातिशयेन रूपादिनोद्भूतत्वादुत्तमः । 'पुरिससीहे' इति, पुरुषश्चासौ सिंहश्च पुरुषसिंहः लोके सिंहे शौर्य मतिप्रकृष्टमभ्युपगतम्, अतः शौर्ये स उपमानः कृतः, रूपकेणालङ्कारविशेषेण स उपमेयस्तस्मादुपमानादभिन्नः, तेन पुरुषसिंहः, शौयं तु बाल्ये प्रत्यनीकन देवेन भाप्यमानस्याप्यभीतत्वात् । 'पुरिसवरपुंडरिए गं' इति-वरं च तत्पुण्डरीकं च वरपुण्डरीकम् , वरं-प्रधानं पुण्डरीकं धवलं सहस्रपत्रं, पुरुष एव बरपुण्डरीका, धवलत्वं तु सर्वाशुभमलीमसरहितत्वात् , सर्वैश्च शुभैरनुभावैः शुद्धत्वात् । 'पुरिसवरगंधहत्थीए गं' इति, वरश्चासौ गन्धहस्ती च वरगन्धहस्ती, पुरुष एव वरगन्धहस्ती (पुरुपवरगन्धहस्ती) १. प्रभोरर्थरूपकथनप्रसिद्धा प्रन्यात्मकत्वादित्यत्र कारणे कार्योपचारो ज्ञेयः । २. छा. लोकेन । ३. सिंहस्योपमानत्वे पमितसमासः फर्त्तव्य इति शङ्कायामाह-रूपकेणेति । ४. पा. पुरुषवरपुण्डरीकमिति । www.jainelibrary.org Jnin Education a For Private 8 Personal Use Only l
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy