________________
श्री भगवती
सूत्र
॥ ८ ॥
dain Education Internation
अप्रतिहते वरे ज्ञानदर्शने धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, यथा चक्रं धारयतीति चक्रधरः ।
बिट्टछउमे गं' इति, छद्म- आवरणम्, तद्विगतं विनष्टं यस्यासौ विगतछया । 'जिणे' (इति) जितवान् कषाय परीपहादीनिति जिनः । नैरुक्तेन विधानेन 'नाणा' इति जानातीति ज्ञायकः ।
('तिष्णे णं तारए णं' इति, तीर्णः तारक:- स्वयं संसाराचीर्णत्वात्तीर्णः अन्येषां तारकत्वात्तारकः । )
'बुद्धेणं बोहए णं' इति, बुधः - जीवादितत्त्वं बुध्यते इति बोधात्मकत्वाद्बुधः, बोहए- परानपि बोधात्मकान् करोतीति बोधकः ।
'मुत्ते णं मोयए णं' इति, बाह्याभ्यन्तरेण ग्रन्थेन बन्धनेन मुक्तत्वात् मुक्तः, मोयए - परानपि मोचयतीति मोचकः ।
'सिवमयले 'त्यादि, सर्वबाधारहितस्वात् सिवम्, न चलति तस्मादित्यचलम्, स्वाभाविक-प्रायोगिकचलन हेत्वमावात् । नास्मिन् रुग् विद्यते अरुजम् । शरीरमनसोरभावात् भवाग्रे प्राप्तस्य यद् रूपं तन्न क्षीयते इत्यत्क्षयम् । न कस्यचिद्वाधां करोतीत्यव्यावाधम् । संसारगतिचतुष्टयव्यतिरिक्ता पश्चमी गतिः सिद्धिगतिरिति नामैव-नामधेयं तत्स्थानं सम्प्राप्तुकामः ।
अथैतानि विशेषणानि जीवस्य कथमचेतने निर्दिश्यन्ते १ उच्यते (ते) - 'तास्स्थ्यासद्वयपदेशः तस्मिन् स्थाने
For Private & Personal Use Only
अब बूरिः
www.jainelibrary.org