Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आवश्यक श्रीमलयसमवसरणे
॥३०॥
४ कनकमयो रजतमय इत्यर्थः । एष भावार्थ:--अभ्यन्तरः प्राकारो रानस्तं विमानाधिपतयः कुर्वन्ति, मध्यमः कनके भवः
कानकः तं ज्योतिर्वासिनः कुर्वन्ति, बाह्यो राजतस्तं भवनपतयः कुर्वन्ति । मणिरयणमयाऽविय कविसीसा सवरयणिया दारा । सवरयणामयच्चिय पडागझयतोरणविचित्ता ॥ ५५०॥ | यथाक्रमं मणिरत्लहेममयानि कपिशीर्षकाणि, तद्यथा-प्रथमप्राकारे पञ्चवर्णमणिमयानि कपिशीषर्काणि, तानि वैमानिकाः कुर्वन्ति, द्वितीये रत्नमयानि तानि ज्योतिष्का विदधते, तृतीये हेममयानि तानि भवनपतयः कुर्वन्ति, तथा सर्वरत्नमयानि द्वाराणि, तानि भुवनपतयः कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलापेक्षया पताकाध्वजप्रधानानि तोरणानि | विचित्राणि-कनकस्वस्तिकादिमिश्चित्ररूपाणि तानि व्यन्तरदेवाः कुर्वन्ति ॥
तत्तो असमंतेणं कालागुरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विउचति ॥५५१॥ I ततः समन्ततः-सर्वासु दिक्षु कृष्णागुरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युकाः, किं-धूपघटिका विकुर्वन्ति 81 व्यन्तरा देवाः॥
उकिडिसीहनायं कलयलसद्देण सबओ सवं । तित्थयरपायमूले करिति देवा निवयमाणा ॥ ५५२ ॥ तीर्थकरपादमूले निपतन्तो देवा उत्कृष्टिसिंहनादं कुर्वन्ति, उत्कृष्टिः-हर्षविशेषप्रेरितो ध्वनिविशेषस्तत्प्रधानः सिंहनाद उत्कृष्टिसिंहनादस्तं, तथा कलकलशब्देन समन्ततः-सर्वासु दिक्षु युक्तं सर्वमशेषं कुर्वन्ति ॥
चेइदुम पीढछंदय आसण छत्तं च चामराओ अजं चऽन्नं करणिज्जं करिति तं वाणमंतरिआ॥ ५५३ ॥
Jain Educalon International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 308