Book Title: Avashyakasutram Part_2 Author(s): Bhadrabahuswami, Malaygiri, Publisher: Jinshasan Aradhana Trust View full book textPage 9
________________ बिटट्ठाई सुरहिं जलथलयं दिवकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवन्नं कुसुमवासं ॥ ५४६ ॥ अभियोग्या देवाः प्रकिरन्ति समन्ततः सर्वासु दिक्षु विदिक्षु च दशार्द्धवर्ण - पञ्चवर्ण कुसुमवर्ष, किंविशिष्टमित्याह'वृन्तस्थायि' वृन्तमधोभागे पत्राप्युपरीत्येवंस्थानशीलं सुरभिगन्धोपेतत्वात् 'दिव्यकुसुमनिर्धारि' दिव्यः -प्रधानः कुसुमानां निर्हारी - प्रबलो गन्धप्रसरो यस्मात् तत् दिव्यकुसुमनिर्धारि ॥ मणि-कण - रयणचित्ते, चउद्दिसिं तोरणे विउर्द्दिति । सच्छत्तसालिभंजिअमयरद्वयचिंघसंठाणे ॥ ५४७ ॥ चतसृष्वपि दिक्षु मणिकनकरत्नविचित्राणि तोरणानि व्यन्तरा देवा विकुर्वन्ति, किंविशिष्टानीत्याह – छत्रं-प्रतीतं, शालभञ्जिकाः - स्तम्भपुत्रिका मकरेति - मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिह्नानि -स्वस्तिकादीनि संस्थानम् - अत्यद्भुतो रचनाविशेषः सन्ति-शोभनानि छत्रशालभञ्जिकामकरध्वज चिह्नसंस्थानानि येषु तानि तथोच्यन्ते । तिन्निय पायारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसयविभूसिए ते विउवंति ॥ ५४८ ॥ तत्र समवसरणे ते वक्ष्यमाणाः सुरगणेन्द्रास्त्रीन् प्राकारवरान् रत्नविचित्रान् -मणिकाञ्चनकपिशीर्षकविभूषितान् विकुर्वन्ति, भावार्थ उत्तरगाथायां व्याख्यास्यते । सा चेयम् अभितर मज्झ बहिं विमाणजोइस भवणाहिवकया उ । पायारा तिन्नि भवे रयणे कणगे य रयए य ॥ ५४९ ॥ अभ्यन्तरे मध्ये बहिः विमानव्योतिर्भवनाधिपकृताः प्राकारास्त्रयो भवन्ति, रत्ने कनके रजते च यथाक्रमं रक्षमयः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 308