Book Title: Avashyakasutram Part_2
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 12
________________ आवश्यक रिकल्पितयोः पादौ, स्थापय निति वाक्मशेषः, 'मग्गेण य होंति सत्तन्ने मार्गतः-पृष्ठतो भगवतः सतान्यानि पद्मानि | श्रीमलय- भवन्ति, तेषां च यत् यत् पश्चिमं तत्पादन्यासं कुर्वतो भगवतः पुरतस्तिष्ठती ति । । समवसरणे 10 आय हिण पुवमुहो तिदिसि पडिरूवगा उ देवकया। जिट्ठगणी अन्नो वा दाहिणपुचे अदूरम्मि ॥५५६॥ स एवं भगवान् पूर्वद्वारेण प्रविश्य 'आयाहिण'त्ति चैत्यगुमप्रदक्षिणां कृत्वा पूर्वाभिमुख उपविशति, शेपासु तिसषु || दिक्षु प्रतिरूपकाणि तीर्थकराकृतिमन्ति सिंहासनादियुक्तानि देवकृतानि भवन्ति, शेषदेवादीनामप्यस्माकं कथयतीति | प्रतिपत्त्यर्थ, भगवतश्च पादमूलमेकेन गणधरेणाविरहितमेव भवति, स च ज्येष्ठोऽन्यो वा, प्रायो ज्येष्ठ इति भावः, स दूच ज्येष्ठगणी अन्यो वा दक्षिणपूर्वे दिग्भागे अदूरेऽप्रत्यासन्ने भगवतो भगवन्तं प्रणम्य निषीदतीति क्रियाध्याहारः, शेषगणधरा अप्येवमेव भगवन्तमभिवन्ध तीर्थस्य मार्गतः पार्श्वतश्च निषीदन्ति ॥ भुवनगुरुरूपस्य त्रैलोक्यगतरूपेभ्यः सुन्दरत्वात् त्रिदशकृतप्रतिरूपकाणां किं साम्यमसाम्यं वेत्याशङ्कानिरासार्थमाह जे ते देवेहिं कया तिदिसि पडिरूवगा जिणवरस्स।तेसिपि तप्पभावा तयाणुरूवं हवइ रुवं ।। ५५७॥ यानि तानि देवैः कृतानि जिनवरस्य तिसृषु दिक्षु प्रतिरूपकाणि तेषामपि तत्प्रभावात्-तीर्थकरप्रभावात् तदनुरूपं-तीर्थकररूपानुरूपं भवतिरूपमिति ॥ ॥३०॥ तित्थातिसेससंजय देवी वेमाणियाण समणीओ। भवणवइवाणमंतरजोइसियाणं च देवीओ॥५५८॥ तीर्थ-(प्रथमो) गणधरः, स पूर्वद्वारेण प्रविश्य तीर्थकरं त्रिकृत्वो वन्दित्वा दक्षिणपूर्वे दिग्भागे निषीदति, एवं शेषगण Jain Education Inter For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 308