Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 12
________________ नियुक्ति गणभृत्स्तुतिः॥ दीपिका ॥ बावश्यक निर्वृतिपथो मोक्षमार्गः रत्नत्रयरूपः तस्य शासनकं स्वार्थ कः, सर्वभावानां देशनकं प्ररूपकं, कुसमयानां अन्यतीर्थिकानां मदस्य नाशकं, कलावपि प्रवर्तमानतीर्थत्वात् , जिनेन्द्रेषु वरस्य श्रीवीरस्य शासनं जयति, अन्यदपि शासनं निधानपत्रं यथावस्थितस्वर्णादिज्ञापनेन, निवृतेः समाधेःप्रभायाश्च शासनकं शिक्षक, सर्वभावानां अभिज्ञानरूपाणां देशनकं, कुसमयो MI दुर्भिक्षं तन्मदस्य नाशनकं स्यात् ॥ २४ ॥ 'सुह' सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥२५॥ ___ सुधर्माणं गणधरं अग्निवेश्यायनं अग्निवेश्यगोत्रं, जम्बूनामानं काश्यपगोत्रं । प्रभवं कात्यायनगोत्रं, शय्यंभवं वत्सगोत्रं ॥ २५ ।। 'जस'जसभदं तुंगियं वंदे, संभूयं चेव माढरं । भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं ॥ २६ ॥ ___ यशोभद्रं तुंगिकगणं व्याघ्रापत्यगोत्रं, तस्य द्वौ शिष्यौ संभूतिविजयो माढरगोत्रः, भद्रबाहुः प्राचीनगोत्रः, तथा संभूतिशिष्यं स्थूलभद्रं गौतमगोत्रं ॥ २६ ॥ 'एला'एलावच्चसगोत्तं, वंदामि महागिरि सुहत्थिं च । तत्तो कोसिअगोतं, बहुलस्स सरिवयं वंदे ॥२७॥ ___ स्थूलभद्रस्य द्वौ शिष्यौ एलापत्येन पूर्वपुरुषेण समानं गोत्रं यस्य तं एलापत्यगोत्रं इत्यर्थः महागिरि तथा वशिष्टगोत्रं सुहस्तिनं च । तत्र सुहस्तिनं आरभ्य सुस्थितसुप्रतिबद्धादिक्रमेणावलिकाः श्रीकल्पात ज्ञेयाः। महागिरिशिष्यो बहलबलि Jain Education Intern For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 460