Book Title: Arhan Mahapujan tatha Poshtik Mahapujan
Author(s): Vardhamansuri, Anantchandra, 
Publisher: Shantilal Himaji Jasaji Mutha

View full book text
Previous | Next

Page 151
________________ पौष्टिक महापूजनविधिः । ॥ १३७॥ ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वहा विमानकल्पान् विहायकत्र संघट्टिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पतिं प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यातिगैर्योजनमुखैर्मणिकलशैः सकलतीर्थजलान्यानयन्ति । ____ततः प्रथमार्हन्तं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्वसुरेन्द्रास्तीर्थोदकैरभिषिञ्चन्ति त्रिभुवनपति तिलकं पट्टवन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं, चालयन्ति चामराणि, वादयन्ति वाद्यानि, शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकाराः स्नात्रं विधाय पौष्टिकमुद्घोषयामः। ततस्त्यक्तकोलाहलैधतावधानः श्रूयतां स्वाहा ।। ॐ पुष्टिरस्तु रोगोपसर्गदुःखदारियडमरदौर्मनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचार्योपाध्यायसाधुसाध्वीश्रावक श्राविकाणां पुष्टिरस्तु, ॐ नमोऽर्हद्भ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोऽन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवैताढयमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थकराः पुष्टिं कुर्वन्तु स्वाहा । ॐ भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमर-बलि-धरण-भूतानन्द-वेणुदेव-वेणुदारि-हरिकान्त-हरिसह-अग्निशिखाग्निमानव-पुण्य-वसिष्ठ-जलकान्त । ॥१३७ ॥ ૩૫. Bain Education International For Personal & Private Use Only N ibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180