________________
पौष्टिक महापूजनविधिः ।
॥ १३७॥
ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वहा विमानकल्पान् विहायकत्र संघट्टिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पतिं प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य
संख्यातिगैर्योजनमुखैर्मणिकलशैः सकलतीर्थजलान्यानयन्ति । ____ततः प्रथमार्हन्तं पुरुषप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपञ्चके सर्वसुरेन्द्रास्तीर्थोदकैरभिषिञ्चन्ति त्रिभुवनपति तिलकं पट्टवन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं, चालयन्ति चामराणि, वादयन्ति वाद्यानि, शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकाराः स्नात्रं विधाय पौष्टिकमुद्घोषयामः। ततस्त्यक्तकोलाहलैधतावधानः श्रूयतां स्वाहा ।।
ॐ पुष्टिरस्तु रोगोपसर्गदुःखदारियडमरदौर्मनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचार्योपाध्यायसाधुसाध्वीश्रावक श्राविकाणां पुष्टिरस्तु, ॐ नमोऽर्हद्भ्यो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोऽन्तः ऋषभाजित० वर्धमानजिनाः २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिताः भवनपतिव्यन्तरज्योतिष्कवैमानिकविमानभवनस्थिताः नन्दीश्वररुचककुण्डलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवैताढयमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थकराः पुष्टिं कुर्वन्तु स्वाहा ।
ॐ भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकाः सम्यग्दृष्टिसुराः सायुधाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमर-बलि-धरण-भूतानन्द-वेणुदेव-वेणुदारि-हरिकान्त-हरिसह-अग्निशिखाग्निमानव-पुण्य-वसिष्ठ-जलकान्त
। ॥१३७ ॥
૩૫.
Bain Education International
For Personal & Private Use Only
N
ibrary.org