________________
मान्महा
पूजन
विधिः।
159
Bा आम्रसमिद्भिः इनुदण्डखर्ज़रद्राक्षाघृतपयोभिः । ततः पूर्वप्रक्षिप्तासु पुष्पाञ्जलिषु जिनबिम्बे बृहत्स्नात्रविधिना परिपूर्ण स्नात्रं |
कुर्यात् । तच्च स्नात्रोदकं तीर्थोदकसंमिश्रं शान्तिकलशवत् संस्थापिते प्रगुणी कृते पौष्टिककलशे निक्षिपेत् । तत्र सुवर्णरूप्यमुद्राद्वयं नालिकेर निक्षिपेत् । कलशं सम्यक् संपूजयेत्पूर्ववत् । छदिसंलग्नं कलशतलस्पर्शिसदशाव्यङ्गवस्त्रं चोपरिलम्बयेत् । पीठपञ्चके च क्रमेण चतुःपष्टिकर-पोडशकर-दशकर-षट्करैर्वस्त्रैराच्छादनम् । गुरुस्नात्रकारगृहाध्यक्षकलशाः पूर्वमेव सकङ्कणा विधेयाः स्वर्णकङ्कणमुद्रिके च गुरवे देये सदशाव्यङ्गश्वेतकौशेयं च । ततः स्नात्रकारद्वयं पूर्ववदखण्डितधारया शुद्धोदककलशे निक्षिपति । गुरुश्च कुशेन पतन्ती धारां पौष्टिकदण्डकं पठन् निक्षिपति । पौष्टिकदण्डको यथा
येनैतद् भवनं निजोदयपदे सर्वाः कला निर्मलं, शिल्प (शल्यं) पालनपाठनोतिसुपथे बुद्धया समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशां,
किंचित्कारणमाकलय्य कलयन्नन् शुभायादिमः॥१॥ इह हि तृतीयारावसाने षट्पूर्वलक्षवयसि श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्तलोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसुरेन्द्राश्चलितासना निर्दम्भसंरम्भमाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमेदुरमानसाः निजनिजासनेम्य उत्थाय
।। १३६ ॥
Jain Education international
For Personat & Private Use Only
www.jainelibrary.org