________________
।। श्री पौष्टिक महापूजन।।
विधिः
॥ १३५॥
ॐ नमः कीर्तये केशरिद्रहवासिन्यै इह० शेषं० ॥ ४ ॥ बुद्धिं प्रति-ॐ ऐं धीं बुद्धये नमः । इति मूलमन्त्रः ॥
__ स्फारस्फुरत्स्फटिकनिर्मलदेहवस्त्रा, शेषाहिवाहनगतिः पटुदीर्घशोभा ।
वीणोरुपुस्तकवराभयभासमान-हस्ता सुबुद्धिमधिकां प्रददातु बुद्धिः॥१॥ ॐ नमो बुद्धये महापुण्डरीकद्रहवासिन्यै बुद्धे इह० शेष० ॥५॥ लक्ष्मी प्रति-ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः । इति मूलमन्त्रः ।।
ऐरावणासनगतिः कनकाभवस्त्र-देहा च भूषणकदम्बकशोभमाना।
मातङ्गपद्मयुगप्रस्तातिकान्ति-र्वेदप्रमाणककरा जयतीह लक्ष्मीः ॥ १॥ ॐ नमो लक्ष्म्यै पुण्डरीकद्रहवासिन्यै लक्ष्मि इह० शेष ॥६॥ ततः
ॐ श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यो वर्षधरदेव्यः सायुधाः सवाहनाः सपरिच्छदा इह पौष्टिक आगच्छन्तु १, इदं० आचमनीयं गृहणन्तु-२, सन्निहिता भवन्तु-२ स्वाहा, जलं गृह्णन्तु-२, गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्य सर्वोपचारान् गृह्णन्तु-२, सन्निहिता भवन्तु २ स्वाहा, शान्तिं कुर्वन्तु २, तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छन्तु स्वाहा । अनेन संकुलपूजा । ___ एवं पीठपञ्चकस्थापनां संपूज्य क्रमेण प्रत्येकं मूलमन्त्रैर्होम कुर्यात् । अत्र पौष्टिके सर्वोऽपि होमोऽष्टकोणकुण्डे
॥१३५॥
Jain Educa
For Personal & Private Use Only
brary.org