Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 155
________________ स्थाद् 18 नाभ्युपगम्यते, स ह्यात्माऽन्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । तेन वादिना स्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् , स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचि॥१४॥ तान्तरयोः कुतस्तादात्म्यम् ? | युगपद्भाविनोश्च प्रतिसन्धेय-प्रतिसन्धायकत्वाऽभावापत्तिः, युगपद्भावित्वे विशिष्टेऽपि किमत्र नियामकम् ?, यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य | 8 जननमर्थः; सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याऽभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनटत्वात् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ?; इति यत्किश्चिदेतत् । तथा प्रमोक्षभङ्गदोषः- प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते ? । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणol सुखीभवनाय घटिष्यते ? । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वर8 सनाशित्वात् तेनैव सार्द्ध दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः । ___अपि च, बौद्धाः "निखिलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न ॐ घटते; कारणाऽभावादेव तदनुपपत्तेः- भावनापचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाऽभा वाद् विशेषाऽनाऽऽधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाऽभ्यासवत् अनासादितप्रकर्षो न स्फुटाऽभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्तक्षणानां स्वाभाविक्याः »00०००००००००००००००००००००००००००००००००००००००००० १४५॥ Jain Education fonal For Private & Personal Use Only wi nelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224