Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 178
________________ स्याद् तथाहि-कुम्भो द्रव्यतः पार्थिवत्वेनाऽस्ति ; नाऽऽप्यादिरूपत्वेन । क्षेत्रतः पाटलिपुत्रकत्वेन; न कान्य कुब्जादित्वेन । कालतः शैशिरत्वेन; न वासन्तिकादित्वेन । भावतः श्यामत्वेन ; न रक्तादित्वेन । अन्यथे. ॥१६८॥ तररूपापत्त्या स्वरूपहानिप्रसङ्ग इति । अवधारणं चात्र भङ्गेऽनभिमतार्थव्यावृत्त्यर्थमुपात्तम् , इतरथाऽनभिहिततुल्यतैवास्य वाक्यस्य प्रसज्ज्येत प्रतिनियतस्वार्थाऽनभिधानात् । यदुक्तम्____ "वाक्येऽवधारणं तावदनिष्टाऽर्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥ ___ तथाऽप्यस्त्येव कुम्भ इत्येतावन्मात्रोपादाने कुम्भस्य स्तम्भाधस्तित्वेनाऽपि सर्वप्रकारेणाऽस्तित्वमाप्तेः प्रतिनियतस्वरूपानुपपत्तिः स्यात् । तत्मतिपत्तये 'स्याद्' इति शब्दः प्रयुज्यते- स्यात्कथंचित् स्वद्रव्यादिभिरेवाऽयमस्ति ; न परद्रव्यादिभिरपीत्यर्थः। यत्रापि चासौ न प्रयुज्यते तत्रापि व्यवच्छेदफलैवकारवद् बुद्धिमद्भिः प्रतीयत एव । यदुक्तम्___"सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्राऽर्थात्प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः" ॥ १ ॥ ॥ इति प्रथमो भङ्गः। | स्यात्कथंचिद् नास्त्येव कुम्भादिः, स्वव्यादिभिरिव परद्रव्यादिभिरपि वस्तुनोऽसत्वाऽनिष्टौ हि पति| नियतस्वरूपाऽभावाद् वस्तुप्रतिनियतिर्न स्यात् । न चास्तित्वैकान्तवादिभिरत्र नास्तित्वमसिद्धमिति वक्तव्यम् । १ एव-शब्दः । ॥१६८॥ Jain Education lational For Private & Personal Use Only willhelibrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224