Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 189
________________ स्याद् काव्यार्थः॥ ॥१७९॥ इदानीं नित्याऽ-नित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविध18 हेतुहेतिसंनिपातसंजातविनिपातयोरयत्नसिद्धपतिपक्षपतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिनशासनं ते ॥२६॥ ___किलेति निश्चये। य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः 18 क्रम-योगपद्याभ्यामर्थक्रियाऽनुपपत्त्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि, समास्तुल्याः, | नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः । तथाहि नित्यवादी प्रमाणयति- सर्व नित्यं स| चात् , क्षणिके सदसत्कालयोरर्थक्रियाविरोधातू तल्लक्षणं सत्त्वं नावस्था बनातीति ततो निवर्तमानमन न्यशरणतया नित्यत्वेऽवतिष्ठते । तथाहि- क्षणिकोऽर्थः सन्वा कार्य कुर्याद्, असन्वा ?। गत्यन्तराऽभा18 वात् । न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापाराऽयोगात् , सकलभावानां परस्परं कार्यकारणभाव प्राप्त्याऽतिप्रसङ्गाच्च । नापि द्वितीयः पक्षः क्षोदं क्षमते, असतः कार्यकरणशक्तिविकलत्वात् , अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन् , विशेषाऽभावात् इति । ॥१७९॥ Jain Education Lotional For Private & Personal Use Only Halainelibrary.org

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224