Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 193
________________ स्याद् उत्तरकालभाविनी प्राप्तिश्चान्या । तदनयोरप्यवस्थाभेददोषो दुस्तरः । कथं चैकरूपत्वे सति तस्यांकस्मिको । ॥१८३॥ बन्धनसंयोगः । बन्धनसंयोगाच्च प्राक् किं नायं मुक्तोऽभवत् । किंच तेन बन्धनेनाऽसौ विकृतिमनुभवति न वा ? । अनुभवति चेत् , चर्मादिवद् अनित्यः । नानुभवीत चेत् , निर्विकारत्वे सता असता वा तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति | बन्ध-मोक्षव्यवस्था । तथा च पठन्ति- .. .. "वर्षाऽऽ-तपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ? । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फल" ॥१॥ बन्धाऽनुपपत्तौ मोक्षस्याऽप्यनुपपत्तिबन्धनविच्छेदपर्यायत्वाद् मुक्तिशब्दस्येति । एवमनित्यैकान्तवादेऽपि सुख-दुःखाद्यनुपपत्तिः-अनित्यं हि अत्यन्तोच्छेदधर्मकम् , तथाभूते चात्मनि || पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलभूतसुखानुभवः ?, एवं पापोपादान॥ क्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदनमस्तु ? । एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ "यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव सन्धत्ते कसे रक्तता यथा" ॥१॥ इति वचनाद् १ आत्मन इति । ००००००००००००००००००००००००००००००००००००००००००० ॥१८३॥ Jain Education a nal For Private & Personal Use Only W onelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224