Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 194
________________ नाऽसमञ्जसमित्यपि वामात्रम्, सन्तान-वासनपोस्वास्तवस्वेन प्रागेव निलोठितत्वात् । तथा पुण्य-पापे स्याद्० अपि न घटेते- तयोहि अर्थक्रिया सुख-दुःखोपभोगः, तदनुपपत्तिश्चानन्तरमेवोक्ता । ततोऽर्थक्रियाकारित्वा॥१८४॥ ऽभावात् तयोरप्यऽघटमानत्वम् । किंचाऽनित्यः क्षणमात्रस्थायी, तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्य-पापोपादानक्रियाऽर्जनम् ?, द्वितीयादिक्षणेषु चावस्थातुमेव न लभते, पुण्य-पापोपादानक्रियाऽभावे च पुण्यपापे कुतः ?; निर्मूलत्वात् , तदसत्वे च कुतस्तनः सुख-दुःखभोगः । आस्तां वा कथंचिदेतत् , तथापि पूर्वक्षणसदृशे नोत्तरक्षणेन भवितव्यम् । उपादानाऽनुरूपत्वाद् उपादेयस्य । ततः पूर्वक्षणाद् दुःखितात् उत्तरक्षणः कथं | सुखित उत्पद्येत ?, कथं च सुखितात् ततः स दुःखितः स्यात् ?, विसदृशभागतापत्तेः । एवं पुण्य-पापादा४ कपि, तस्माद्यत्किञ्चिदेतत् ।। एवं बन्ध-मोक्षयोरप्यसंभवः-लोकेऽपि हि य एव बद्धः स एव मुच्यते, निरन्वयनाशाऽभ्युपगमे चैकाधिकरणत्वाऽभावात् सन्तानस्य चाऽवास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि वात्मनि स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते "परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः" ॥१॥ इति वचनात् । १८४॥ Jain Education intollonal For Private & Personal Use Only witwarfinelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224