Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 209
________________ स्याद् तु भवामिति- मुक्तो नितिमाप्तः, सोऽपि वा- अपिर्विस्मये, वा शब्द उत्तरदोषापेक्षया समुच्चयार्थः॥१९९|||| यथा देवो वा दानवो वेति, भवमभ्येतु संसारमभ्यागच्छतु, इत्येको दोषप्रसङ्गः । भवो वा भवस्थशून्यो|| ऽस्तु- भवः संसारः, स वा भवस्थशून्यः संसारिजीवैर्विरहितोऽस्तु भवतु । इति द्वितीयो दोषप्रसङ्गः ।। की इदमत्र आकृतम्- यदि परिमिता एव आत्मानो मन्यन्ते तदा तत्त्वज्ञानाऽभ्यासप्रकर्षादिक्रमेणाऽपवर्ग ग च्छत्सु तेषु संभाव्यते खलु स कश्चित्कालो यत्र तेषां सर्वेषां निर्वृतिः, कालस्याऽनादिनिधनत्वाद् आत्मनां 8 च परिमितत्वात् संसारस्य रिक्तता भवन्ती केन वार्यताम् ?, समुन्नीयते हि प्रतिनियतसलिलपटलपरि४ पूरिते सरसि पवनतपनाऽऽतपनजनोदश्चनादिना कालान्तरे रिक्तता । न चायमर्थः प्रामाणिकस्य कस्यचिद् प्रसिद्धः, संसारस्य स्वरूपहानिप्रसङ्गात् । तत्स्वरूपं हि एतद्- यत्र कर्मवशवर्तिनः प्राणिनः संसरन्ति, स मासाघुः, संसरिष्यन्ति चेति । सर्वेषां च नितत्वे संसारस्य वा रिक्तत्वं हठादभ्युपगन्तव्यम् , मुक्तैर्वा |8|| पुनर्भवे आगन्तव्यम् । न च क्षीणकर्मणां भवाधिकारः "दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाऽङ्करः। कर्मबीजे तथा दग्धे न रोहति भवाऽङ्करः" इति वचनात् । ___ आह च पतञ्जलि:- “संति मूले तद्विपाको जात्यायु गाः" इति । एतट्टीका च "सत्सु क्लेशेषु कमाशयो विपाकारम्भी भवति, नोच्छिन्नक्लेशमूलः । यथा तुषावनद्धाः शालितण्डुला अदग्धवीजभावाः प्र ॥४/१९९॥ १ योगदर्शने साधनपादे त्रयोदशं सूत्रम् । Jain Education Ional For Private & Personal Use Only whapelibrary.org

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224