Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 196
________________ स्याद् ॥१८६॥ साम्पतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण "प्रमाणनयैरधिगमः" इति वचनाद् जीवाऽजीवादितत्त्वाऽधिग मनिवन्धनानां तेषां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्य वचनातिशयं स्तुवन्नाह सदेव, सत्, स्यात्सदिति त्रिधाऽर्थो मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाणपथेन दुर्नीतिपथं त्वमास्थः ॥ २८॥ अर्यते परिच्छिद्यत इत्यर्थः पदार्थः, त्रिधा त्रिभिः प्रकारैः, मीयेत परिच्छियेत, विधौ सप्तमी। कैत्रिभिः । प्रकारैः ?, इत्याह- दुर्नीति-नय-प्रमाणैः- नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्मीतयो दुर्नया इत्यर्थः, नया नैगमादयः, प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेन इति । प्रमाणम्- स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् ; दुर्नीतयश्च नयाश्च प्रमाणे च दुर्नीति-नय-प्रमाणानि तैः । केनो- | ल्लेखेन मीयेत?, इत्याह-'सदेव, सत्, स्यात्सद्' इति। सदिति अव्यक्तत्वाद् नपुंसकत्वम्, यथा किं तस्या गर्भे | जातमिति । सदेवेति दुर्नयः, सदिति नयः, स्यात्सदिति प्रमाणम् । तथाहि- दुर्नयस्तावत्सदेव इति ब्रवीति- 18 'अस्त्येव घटः' इति, अयं वस्तुनि एकान्ताऽस्तित्वमेव अभ्युपगच्छन् इतरधर्माणां तिरस्कारेण स्वाभिप्रेतमेव धर्म ॥१८६।। १ तत्वार्थसूत्रे प्रथमाध्याये षोडशं सूत्रम् । २ इयं च श्रीहैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा । Jain Education int onal For Private & Personal Use Only IMABlibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224