Book Title: Anyayoga vyavaccheda dwatrnshika
Author(s): Hemchandracharya, Hargovinddas T Seth, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 169
________________ स्याद् व्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात् , रूपादिवदिति। न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयानुवर्तनं च खलुत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललो. ॥१५९॥ कसाक्षिकाण्येव । । ___ न चामी भिन्नलक्षणा अपि परस्पराऽनपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि- उत्पादः केवला 8. नास्ति, स्थितिविगमरहितत्वात् , कूर्मरोमवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात् , तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात् , तद्वदेव । इत्यन्योऽन्यापेक्षाणामुत्पादादीनां | वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम् - ___ "घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ॥१॥ पयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥२॥" । इति काव्यार्थः ॥ . अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान् , भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह अनन्तधमोत्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् ।। इति प्रमाणान्यपि ते कुवादिकुरसंत्रासनसिंहनादाः ॥ २२ ॥ ॥१५९॥ Jain Education P ational For Private & Personal Use Only w onelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224