Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
आनुपूय॑नानुपूर्व्यादिभंगानां संख्या स्यु:, तथाहि-एकादीनि पदानि नवपर्यन्तानि क्रमेण स्थाप्यन्ते १।२।३।४।५।६।७।८।९ अत्र मिथोगुणने यथा अत्राद्यस्यैकरुपस्य पदस्य द्वितीयाभावेन मिथोगुणनाभावात् एक एव भंगः, तथा एकद्विकयोर्गुणने जातौ दौ द्विकगणस्य भंगसंख्या २ द्वौ त्रिभिर्गुणितौ जाताषट्, एषां त्रिकगणस्य भंगसंख्या ३, तत: षट् चतुर्भिर्गुणिता जाता:श्चतुर्विंशतिः एषा चतुष्कगणस्य भंगसंख्या ४, तत श्चतुर्विंशति: पंचभिर्गुणिता जातं विंशत्युत्तरं शतं एषा पंचकगणस्य भंगसंख्या ५, विंशत्युत्तरशतं षड्भिर्गुणितं जातानि सप्तशतानि विंशत्युत्तराणि एषा षट्क गणस्य भंगसंख्या ६, इयं च सप्तमिर्गुणिताजाता पंचसहस्त्रश्चत्वारिंशदधिका एतावती सप्तकगणस्य भंगसंख्या ७, इयं अष्टमिर्गुणिता जाता अष्टकगणस्य भंगसंख्या श्चत्वारिंशत्सहस्राणि त्रीणिशतानि विंशत्युत्तराणि ८, एते भंगा नवमि र्गुणिता जाता स्तिस्रो लक्षा: द्वाषष्टिः सहस्रा: अशीत्यधिकानि अष्टौ शतानि च एषा नमस्कार नवपदानां आनुपूर्वी अनानुपूर्वी पश्चानुपूर्वी भंगानां संख्या ९, एता एव भंगसंख्या गाथाभिराह
एगस्स एगभंगो, दोण्णं दो चेव तिण्हछभंगा। चउवीसं च चउण्णं, वीसुत्तर सयं च पंचण्हं ॥३॥ सत्तसयाणि वीसा, छण्हं पणसहसचत्तसत्तण्णं । चालीससहस्सतिसया, वीसुत्तरा हुंति अण्हं ॥४॥ लक्खतिगं बासट्ठी, सहस्स अठ यसयाणि तह । असीइ नवकार नवपयाणं, भंगसंखाउ नायव्वा ॥५॥ गाथात्रयं स्पष्टं एषां भंगानामान्याहतथ्य पढमाणुपुव्वी, चरमा पच्छाणुपुब्विया नेया। सेसाओ

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54