Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 36
________________ मज्झिमाओ, अणाणुपुवीओ सव्वाओ ||६|| स्पष्टा अत्र पंचपदीमाश्रित्य विंशत्युत्तरशतभंगकयंत्रकं लिख्यते यथा, अथ प्रस्तारमाह अणुपुव्विभंग हिठ्ठा जिठ्ठे, ठंविय अग्गओ उवरिं सरिसं । पुव्विं जिठ्ठाइ कमा, से से मुत्तुं समयभेयं ॥ ७ ॥ " व्याख्या-आनुपूर्वी भंगस्य पूर्वन्यस्तस्योपलक्षणत्वादनानुपूर्वी भंगस्याऽपि पूर्वन्यस्तस्याऽधस्तात् द्वितीयपंक्तावित्यर्थः, ज्येष्टं सर्वप्रथमं अंकं स्थापय इति क्रिया सर्वत्र योज्या तथाऽग्रत उपरीति उपरितनपंक्तिसद्दशं अंकराशी मितिगम्यं स्थापय तथा पूर्व्वमिति यत्र ज्येष्ट: स्थापितस्तत: पूर्व्वभागे पश्चाद् भाग इत्यर्थ: ज्येष्टानुजेष्टादिक्रमात् शेषान् स्थापय अंकानिति गम्यं वक्ष्यमाणगाथारीत्या सद्दशांक स्थापना समयभेदस्तं मुक्त्वाटालयित्वेत्यर्थ: तत्र पंचपदीमाश्रित्योदाहरणं यथा १२३४५ एषाऽऽनुपूर्वी अत्र एकस्य सर्वज्येष्टत्वेन तस्यापर ज्येष्टाभावान्न किंचिन्तदधः स्थाप्यते, ततो द्विकस्यैकको ज्येष्टः स्यादत: स तदधः स्थाप्यते, अग्रत उपरीति उपरितनपंक्ति सद्दशोऽकराशि ३४५ रुपः स्थाप्यते, शेषोऽत्र द्विकस्तत: स: पूर्व स्थाप्य जाता द्वितीयापंक्ति: २१३४५, अथ तृतीयपंक्तौ आद्यस्य द्विकस्य एकको ज्येष्टोऽस्ति परं तस्मिन् स्थाप्यमानेऽग्रत उपरितनांक १३४५ रुपस्थापने सद्दशांकस्थापनारूप: समयभेद: स्यात् ततो द्विको मुच्यते एकस्य च ज्येष्टाभावात्याग: तत: एककं द्विकं च मुक्त्वा त्रिकस्य ज्येष्टो द्विकोऽस्ति तदधः स्थाप्यते अग्रत उपरि सद्दशो ४५ रुपावंकौ स्थाप्यौ पूर्व च शेषावेकक: त्रिको ज्येष्टादिक्रमात् स्थाप्यो जाता तृतीयपंक्ति: १३२४५॥ A zz জস

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54