Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पंचकत्रिकौ गतौ तद्ग्रेतनो द्विको नष्टः स्थाने लेख्यते परमेवं समयभेद: स्यादिति तं मुक्त्वा तृतीय पंक्तौ तदनेतन एकको लिख्यते एकशेषत्वात् शेषावंकौ त्रिकपंचकौ क्रमेण लेख्यौ यथा ३५१२४ इदं एक चत्वारिंशत्तमं रुपम् एवं सर्वोदाहरणेषु ज्ञेयं।
अथोदिष्टानयने करणमाहअंता इग य अंका, निय२ परिवट्ट ताडि या सव्वे । उद्दि भंगसंखा, इगेण सहिया मुणेयव्वा ॥१७॥
व्याख्या-यावंतोऽका: सर्वपंक्तिष्वंत्यादयो गताः स्युः कोऽर्थः, स्वस्वपरिवर्तीकसंख्यावारान् वर्तित्वोत्थिता: स्यु: तेऽका: स्व २ परिवर्तेस्ताडिता: गुणिता: पश्चादेकयुता उद्दिष्ट भंगस्य संख्या स्यात्। उदाहरणं यथा २३४५१, इदं कतिधम् रूपमितिके नाऽपि पृष्टं; अत्रांत्यपंक्तौ द्रष्ट एक क: अतोऽत्यादयः पश्चानुपूर्त्या पंचकचतुष्कत्रिकद्धिकरूपाश्चत्वारोऽका मता:, ततश्चत्वार: पंचमपंक्तिपरिवर्तेन २४ रूपेण गुणिता जाता षण्णवतिः, तथा चतुर्थपंक्तौ द्रष्ट पंचकोऽतोऽत्र गतांकाभाव: तृतीयपंक्तौ द्रष्टचतुष्कः, अत्र पंचको गत: स्यात् परं 'नछु दिठे' त्यादि गाथया वर्जितत्वात् तद् गतमध्ये न गण्यते, तेनाऽत्राऽपि गतांकाभावः, एवं द्वितीयपंक्तौ पंचकचतुष्को प्रथमपंक्तौ च पंचकचतुष्कत्रिकागता: स्युः परं वर्जितत्वेन गतांकेषु न गण्यते, अतस्तत्रापि गतांकाभावः, ततः षण्णवतिरेकयुता जीता सप्तनवतिः इदं सप्तनवतितमं रुपं तथा ३२१५४. इदं कतिधमिति पृष्टे, अत्रांऽत्यपंक्तौ द्रष्टः चतुष्कः ततः एकः पंचकरुपोंऽको गतः तत: एकश्चतुर्विंशत्या परिवर्तेन गुण्यते जाता: २४, चतुर्थपंक्तौ पंचकस्य द्रष्टत्वात् गर्तोकः कोऽपि नास्ति तृतीयपंक्तौ द्रष्ट: एकक: 'नछु दिठे' त्यादि गाथोदितत्वात्

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54