Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
ते गतांकसंख्यायां क्रियमाणायां न गण्यते । अंत्यादारभ्यांक-क्रमायाताऽपि टाल्यंते ते हि अंत्यादिपंक्तिषु स्थितत्वेनापरपंक्तिषु अद्यापि नाधिकृता अतस्तान् टालयित्वा गतांकानां संख्या: कार्येत्यर्थ: भावना नष्टोद्दिष्टोदाहरणेषु कृता।
अथ कोष्टकप्रकारेण ‘नष्टोद्दिष्टे' आनिनीषु: पूर्व कोष्टकस्थापनामाहपढमाए इगुकोठो उड्डअहो आययासु पंतीसु । एगेगवड्डमाणा, कोठा सेसासु सव्वासु ॥१९॥
व्याख्या-इहोवधि आयता: कोष्टकपंक्तयो रेखाभि: क्रियन्ते तत्र प्रथमपंक्तौ एक एव कोष्टक: शेषपंक्तिषु पूर्व २ पंक्तित उत्तरोत्तरपंक्तिष्वधस्तात् संख्ययैककवर्द्धमानां कोष्टका: कार्याः।
अथ कोष्टकेष्वंकस्थापनामाहइगु आइम पंतीए, सुन्ना अन्ना सुआइ कोठे सु । परिवट्टा बीएसु, दुगाइ गुणियाय सेसेसु ॥२०॥
व्याख्या-आदिमपंक्ती प्रथमकोष्टके एकक एव स्थाप्य:, अन्यासुद्वीतीयादिपंक्तिष्वाद्य कोष्टकेषु शून्यान्येव स्थाप्यानि, द्वितीयेषु कोष्टकेषु परिवर्तीका: स्थाप्याः, तथा तृतीयकोष्टकेषु त एव द्विगुणा: चतुर्थे कोष्टकेषु त एव त्रिगुणा: पंचमेषु चतुर्गुणा: षष्टेषु पंचगुणा: सप्तमे, षड्गुणा: अष्टमे सप्तगुणा: नवमकोष्टकेऽष्टगुणा: कोष्टकपंक्तिस्थापनायंत्रकं यथा
अथ नष्टोद्दिष्टविद्यौ कोष्टकेष्वंकगुणनरीतिमाहपुवठियं के मुत्तुं, गणियव्वा अंतिमाइपंतिसु । तुठाओ उवरिमाओ, आई काऊण लहु अंकं ॥२१॥

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54