Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
युम्मव्याख्या-इह प्रतिपंक्ति सत्कैकक एव कोष्टकांको ग्राह्य: ततो यैर्यैः कोष्टकाकै: परिवर्तसत्कै र्मूलपंक्तिसत्कै कयुतैनष्टांको नष्टभंगस्य संख्या स्यात् तेषु तेषु कोष्टकेष्वभिज्ञानार्थं हे शिष्य त्वं अक्षान् क्षिप स्थापय॥२३॥ अथ द्वितीयगाथार्थ: कथ्यते अक्षस्थानानि अक्षकान्ता: कोष्टका: तै: समानिसंख्यया तुख्यानि कोऽर्थ: अक्षा क्रान्त कोष्टकानां प्रथमो द्वितीयतृतीयश्चतुर्थ:पंचम इत्यादि रुपाया संख्या तासु पंक्तिषु नष्टरुपाणामपि सैव संख्या ज्ञेया। यावंतिथोऽक्षाक्रांत: कोष्टकस्तावंतिथं नष्टं रुपमित्यर्थ: शेषा: स्व अक्षानाक्रांतपंक्तिषु शून्यकोष्टक संख्या तुल्यानि नष्टरूपाणि लेख्यानि, उदाहरणं यथा त्रिंशत्तमो भंगो नष्टः सः कीद्दश इति केनाऽपि पृष्टं तत: पंचपदकोष्टकयंत्रके पंचमपंक्तिस्थ २४ तृतीयपंक्तिस्थ: ४ द्वितीयपंक्तिस्थ: १ अकै र्जाता २९ मूलपंक्तिस्थ १ युतत्वेन ३० नष्टभंगस्य संख्या ततो भिज्ञानार्थमेतेषु कोष्टके ऽक्षा: क्षिप्ता: तत: पंचमपंक्ती सर्वलघु पंचमादिकृत्वा पश्चानुपूर्व्या पंचम चतुर्थ इत्यादिगुणनेऽक्षाक्रांतकोष्टके स्थितश्चतुष्कः, तत: पंचमपंक्तौ नष्टस्थाने चतुष्को लेख्य: चतुर्थपंक्तिरक्षैनाक्रांताऽत: सर्वलधुपंचकमादिं कृत्वा गुणने शून्यकोष्टके स्थित: पंचक एव चतुर्थपंक्तौ नष्टस्थाने लेख्य: तथा तृतीयपंक्तौ पंचक चतुष्कौ लघू अपि पूर्वं स्थापितत्वेन मुक्त्वा शेषं त्रिकमेवलधुमादिं कुत्वा गणनेऽक्षाक्रान्त कोष्टके स्थित एककोऽत: स एव तृतीयपंक्तौ नष्टस्थाने स्थाप्य: तथा द्वितीयपंक्तौ प्राग्वत् पंचकचतुष्कौ पूर्वं स्थितौ विमुच्य लघु त्रिकमादिं कृत्वा गुणनेऽक्षाकान्त कोष्टके स्थितस्त्रिक: स एवाद्यपंक्तौ नष्टो ज्ञेयः इति जातो त्रिंशत्तमो भगः ३२१५४ एवं ज्येष्टज्येष्टमंकमादिं कृत्वाऽधस्तनकोष्टकाद् गणनेऽपीदृशमेवेदं नष्टरुपमायाति यथांत्यपंक्तौ सर्वज्येष्टमेककमादौ कृत्वाऽधस्तन कोष्टकाद् गणनेऽक्षाकान्तस्थाने स्थितश्चतुष्कः ततः स एव तत्र नष्टो लेख्य: चतुर्थपंक्तौ पूर्वं पंचमपंक्तिस्थापितं चतुष्कं टालयित्वाऽधस्तन कोष्टकाद् सर्वज्येष्टमेकमादिं कृत्वा

Page Navigation
1 ... 47 48 49 50 51 52 53 54