Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 11
________________ ४ कतिपयवर्षांणि यावद् गृहवासस्थितिमनुभूय ततो विरक्तो जैनीं दीक्षां प्रसिद्ध "बुटेराय जीत्यपराभिधान' बुद्धिविजय' शिष्यतपागच्छालङ्कारवृद्धिचन्द्राभिधानप्रसिद्धवृद्धिविजयाद् मुनिवराज्जग्राह गुरुकृतेन 'नेमिविजय' इति नाम्ना लोके प्रसिद्धोऽभवत्, दीक्षाग्रहणसमनन्तरमेव मुनि कर्त्तव्यावश्यक नित्यकर्मप्रतिक्रमणाद्यनुष्ठानपरायणो भूत्वा स्वकीयकर्मग्रन्थाद्यध्ययनपुरस्सरं पाणिनीय व्याकरणं कौमुदीमनोरमाभूत्यादिकं क्रमशोऽधीतवान्, तदनु श्रीसिद्धहेमचन्द्रशब्दानुशासन- बृहद्वृत्तिमपि समधीतवान्, न्यायवेदान्तादिदर्शनकृतपरिश्रमः प्रत्यहं विविधदृष्टान्तोपेतविशिष्टसाधुचरितशास्त्रार्थव्याख्यानेन जैनसङ्घ वैष्णवादिकञ्च जैनमतरुचिप्रत्यलं चकार, इत्थं लोकोपकारकत्वेन लोके प्रसिद्धतरतामुपगतस्य जैनमतोल्लासकस्य तस्य गुणगणाकृष्टाः बहवः श्राद्धाः श्रेष्ठिनः परमभक्ता बभूवुः, तदुपदिष्ट जैनधर्मोन्नतिकारकप्रत्येकवणिक्समाजावस्थानग्रामाभिनवजिनमन्दिरनिर्मिति- जिनेश्वर प्रतिमाप्रतिष्ठापन-जीर्णोद्धार-जैनसङ्घप्रतिक्रमणादिधर्मक्रियाकरणोपयोगिधर्मालय-मुनिगणाव स्थितिव्याख्यानाविघ्नस्थानोपाश्रय-दीन वणिग्जनरक्षण-तद्धर्माध्ययनाध्यापनाद्युपयोगिपुस्तकागार - शिक्षकमासिक शुल्का दिप्रदान - तीर्थयात्रादिकरणेषु यथासाध्यधनोपयोगिनश्च संवृत्ताः, शास्त्रोक्तचातुर्मासिकैकग्रामावस्थितिसमयव्यतिरिक्त समय नियमितावस्थितिविहरणायाततत्तद्भामानवच्छिन्नख समय पर समयोल्लसितसद्युक्तिनिकरानन्दाधायकदृष्टान्तसमष्ट्यलंकृतभववैराग्योद्दीपकमुक्तिमार्गौला सकतदीयव्याख्यानश्रवणोपजातभववैराग्यभाजश्च कुलशीलसम्पन्नास्ततो जैनीं दीक्षां परिगृह्य धर्मध्यानपरायणा अभूवन् । स्वर्गं तेच गुरौ वृद्धि विजये तत्प्रथमशिष्यं पन्यास 'गम्भीर विजय' गणिप्रवरं ज्येष्ठभ्रातरं बहुमानपुरस्सरं तत्परिशीलितकर्मग्रन्थार्थापूर्व विचारपर्यालोचनेनानुरञ्जयन् तत एव योगोद्वहनपुरस्सरं वल्लभीपुरे राज्ञः श्रावकाणाञ्चात्याग्रहात्तदानन्दकन्दोल्लास कं चतुर्विधसङ्घसमक्षं पन्यासपदं गणिपदञ्च जग्राह स्वयञ्च विनीतायैकान्तभक्ताय विविधकर्मग्रन्थादिविचारसागराय ' आनन्दसागराय गणिपदं ददौ,' स चानेन सहैव विहरन् तीर्थयात्रादिकञ्च कुर्वन् बहुसमयमेतत्सङ्गतिमासाद्य लोके प्रसिद्धोऽभवत्, एवं विहरमाणस्य प्रतिग्रामं जैनधर्मोन्नतिं कुर्वतोऽस्य पन्न्यासनेमिविजयगणिप्रवरस्यैकदैवम्मतिरुत्पन्ना - श्रीसिद्धसेनदिवाकरनिर्मितस्य सम्मतितर्कस्य यदि समीपस्थग्रामान्तरेऽध्यापनं शास्त्रपारावारपारीणेन जैनेन तदितरेण वा क्रियते तदा चतुर्मासेऽपि तदध्ययनार्थमवश्यं गन्तव्यं 'जैनसाधुभिः, नात्र शास्त्राज्ञाविलोपः, इत्थं महत्त्वोपेतस्यास्याध्ययनाध्यापनादिकमवश्यं प्रचारणीयम

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 442