Book Title: Anekant Vyavastha Prakaranam Part 02
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir

View full book text
Previous | Next

Page 14
________________ साधुसाध्वीश्रावकश्राविकाणां सम्मेलनेनैकं सङ्घपतिं कृत्वा विजयनेमिसूरीश्वरमप्रे प्रयान्तमनुगच्छन्तः कतिपयदिवसैः पादलिप्तपुरं प्रविविशुः, तत्र सङ्घन सह सिद्धाचलशिखरमारुह्य तत्र प्रतिमन्दिरं जिनेश्वरमूर्तिदर्शनतत्स्तुत्यादिकं शिष्यैरन्यसाधुसाध्वीभिश्च सह चकार श्रीविजयनेमिसूरिः,श्रावकश्राविकाश्चाक्षतपुष्पादिभिरर्चनं चक्रुः, इत्थमेव प्रतिवर्ष तीर्थयात्राऽपूर्वग्रामचातुर्मास्यवस्थानादिकमस्याभूत् इत्थं विहरतोऽस्य मार्गागते यत्र यत्र ग्रामे एकदिवसमध्यवस्थानं तत्र तत्र शिष्याणां व्याकरणन्यायादिशास्त्राध्ययनं पण्डितद्वाराऽभवदेव, श्रीहेमचन्द्रसूरिनिर्मितव्याकरणमुद्रण-तत्परिशोधनेऽभूतामेव, एवं श्रीमद्यशोविजयोपाध्यायविरचितन्यायालोक-वर्द्धमानस्तवटीकाखण्डनखाद्यादेः परितः शोधनपूर्वकं मुद्रणमभवदेव, यदा यदा व्याख्यानादिकार्यकरणानन्तरमवकाशो भवति तदा तदा शिष्याणामध्यापनं पठितग्रन्थसम्यग्ज्ञानपरीक्षणं प्रारब्धनिर्माणंहेमप्रभाव्याकरणनिर्माणञ्चाकरोत्, कदम्बगिरितीर्थोद्धरणार्थञ्च तन्निकटवासिभ्यस्तद्भमिस्वामिभ्य उपदेशेन तदुपयुक्तभूभागसम्प्रदानत्वमभिनवोपकल्पितजिनदासधर्मदाससंस्थानियुक्तश्रावकप्रवराणामास्थाय तत्राधो देशे तत्कार्यपरायणानां तत्कार्योपयोगिगृहं साधूनामवस्थानव्याख्यानाद्यालयं जैनसङ्घावस्थानोपयोगिनीं धर्मशालां कदम्बगिर्यपरिभागेषु च जिनमन्दिराणि च कत्तुं तत्स्थानप्रधानाः प्रयत्नवन्तो बभूवुः, तदुन्नत्यैकदत्तचित्तश्च सूरिप्रवरो यत्र कुत्रापि ग्रामे स्थितो विहरन् वा दर्शनार्थमागतान् श्रेष्ठिप्रवरान् तथोपदिदेश यथा ते जिनदास-धर्मदाससंस्थाप्रधानाध्यक्षान्प्रति विशिष्य तत्तत्कार्यनिष्पत्तिप्रत्यलानि द्रव्याणि प्रेषयामासुः, तत्तजिनबिम्बानि विशिष्टजातीयप्रस्तरैर्निर्माय जयपुरवासिनःशिल्पकलाकुशलास्तत्समीपमानयामासुः, परीक्षितानि च तानि यथायोग्यमूल्यप्रदानेन गृहीत्वा तत्रत्यश्रेष्ठिनो जिनदासधर्मदाससंस्थायां प्रेषयामासुः, इत्थमुत्तरोत्तरं प्रतिवर्ष तत्तत्कार्यनिष्पत्तितो वृद्धिमुपगते प्रभूतमन्दिरोपजातविशिष्टप्रभावे कदम्बतीर्थे भूयो भूय आगत्य तत्तजिनबिम्बप्रतिष्ठाकरणोत्सुकानेकवेष्ठिप्रवरद्वारा प्रत्येकं मन्दिरेषु जिनबिम्बप्रतिष्ठां कारयामास श्रीविजयनेसूरीश्वरः। इत्थं जैनधर्मोन्नतिं विदधानस्यास्य क्रमेण बहवः शिष्या व्याकरणन्यायादिशास्त्रनि. ष्णाता अभूवन् , तेभ्यश्च योगोद्वहनादिपुरस्सरं गणिपदं पन्यासपदं च ददौ, तेष्वपि च ये तत्तच्छास्त्रेषूहापोहसमर्थाः स्वसमीपमागतान् श्रावकांश्च प्रतिबोधयितुं निपुणाः पण्डितसभायां च प्रतिवादिभिः समं शास्त्रार्थ कृत्वा तान्पराजित्य अहोपाण्डित्यकाष्ठा

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 442