Book Title: Amar Kosh Author(s): Chintamani Shastri Publisher: Government Central Book Depo View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra १] www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम् अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ आदितेया दिविषदो लेखा अदितिनंदनाः ॥ आदित्या ऋभवो ऽस्मा अमर्त्या अमृतधसः ॥ ८ ॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ॥ वृंदारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्य विश्ववसवस्तुषिताभास्वरानिलाः ॥ महाराजिकसाध्याच रुद्राश्र गणदेवताः ॥ १० ॥ त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम् । इति नव नामानि स्वर्गस्य । तत्र स्वरित्यव्ययं स्वरादिनिपातमव्ययमिति सूत्रात् । लिंगसंख्याकारकाभाववदित्यर्थः । द्योदिव द्वे स्त्रीलिंगे । द्यौर्गोवदाद्यः । द्यौः दिवौ दिवः द्युभ्यामित्याद्यपरः । त्रिविष्टपं क्लोबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः एवमुत्तरत्रापि अर्थसाम्येन पर्यायांतराणि स्वयमूह्यानि । स्त्रियौ क्लीवे इत्यपि पाठः ॥ ६ ॥ अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः “दिवोकसः " ॥ ७ ॥ आदितेयाः दिविषदः लेखाः अदितिनंदनाः आदित्याः ऋभवः अस्वप्नाः अमर्त्याः अमृतांधसः || ८ || बहिर्मुखाः । बर्हिरग्निः मुखं येषाम् । ऋतुभुजः १ गीर्वाणाः “ गीर्वाणाः” दानवारयः वृंदारकाः दैवतानि देवताः । इति षड्विंशति नामानि देवानाम् । व्यक्तिबाहुल्याद्बहुवचनप्रयोगः । विकल्पेन दैवतशब्दः पुंसि । यथा देवत ऽमिदं दैवतोयमिति । देव एव देवता स्वार्थे तलू ॥९॥ अथ संघचारिण आह । आदित्येति । आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशन्तुषिता सुताः || १|| आभाः स्वराश्चतुःषष्टिर्वाताः पंचाशदूनकाः । महाराजिकनामानो द्वे शते विंशविस्तथा ॥ २ ॥ साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः || आदित्या द्वादशे । विश्वे दर्श । वसवोऽष्टौ । तुषिताः षत्रिंशत् । आभास्वराः चतुःषष्टिः । अनिला एani चाशत् | महाराजिकाः विंशत्यधिकशतं द्वयं । साध्या द्वादशे । रुद्रा एकदश । एता गणदेवताः । अत्र. तुषिताद्या गणा बौद्धपातंजलादौ द्रष्टव्याः ॥ १० ॥ देवयोनीना | विद्येति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवांगनाः । यक्षा: कु For Private And PersonalPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 463