Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य स्वर्गवर्गः विश्वंभरः कैटभजिदिधुः श्रीवत्सलांछनः ॥ पुराणपुरुषो यज्ञपुरुषो नरकांतकः ॥ २२ ॥ जलशायी विश्वरूपो मुकुंदो मुरमर्दनः॥ वसुदेवो ऽस्य जनकः स एवानकदुंदुभिः॥२३॥ बलभद्रः प्रलंबनो बलदेवो ऽच्युताग्रजः॥ खेतीरमणो रामः कामपालो हलायुधः॥२४॥ नीलांबरो रौहिणेयस्तालांको मुसली हली॥ संकर्षणः सीरपाणिः कालिंदीभेदना बलः॥२५॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः॥ कंदर्पो दर्पको ऽनंगः कामः पंचशरः स्मरः॥२६॥ शंबरारिमनसिजः कुसुमेषुरनन्यजः॥ पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥२७॥ विशेषः लांछनं चिन्हं यस्य । उक्तंच हरिवंशे। श्रीवत्सेनोरसि श्रीमान् रोमजातेन राजता । शुशुभे भगवान् कृष्णः । पुराणपुरुषः यज्ञपुरुषः नरकांतकः ॥ २२ ॥ जलशायी विश्वरूप: मुकुंदः मुरमर्दनः। इति षट्चत्वारिंशद्विष्णोः । अस्य कृष्णस्य जनकः पिता वसुदेवः । वसुदेव एव आनकदुंदुभिः द्वे कृष्णपितुः ॥२३॥ बलभद्रः प्रलंबन्नः बलदेवः अच्युताग्रजः रेवतीरमणः रामः कामपाल: हलायुधः ॥ २४ ॥ नीलांबरः रौहिणेयः तालांकः मुसली "मुषली” हली संकर्षणः सीरपाणिः कालिदीभेदनः बलः । इति सप्तदश बलरामस्य ॥२५॥ मदनः मन्मथः मारः प्रद्युम्नः मीनकेतनः कंदर्पः दर्पकः अनंगः कामः पंचशरः स्मरः ॥ २६॥ शंबरारिः “संबरारिः" मनसिजः कुसुमेषुः अनन्यजः पुष्पधन्वा रतिपतिः मकरध्वजः आत्मभूः । इत्येकोनविंशतिर्मदनस्य नामानि ॥२७॥"अरविंदमशोकं च चूतं च नवमल्लिका ॥ नीलोत्पलं च पंचैते पंचबाणस्य सायकाः॥१॥ उन्मादनस्तापनश्च शोषणः स्तंभनस्तथा ॥ संमोहनश्च कामस्य पंच बाणाः प्रकीर्तिताः ॥२॥" ब्रह्मसूः ऋष्यकेतुः “ ऋश्यकेतुः विश्वकेतुः झषकेतुरित्यपि पाठांतरम्" । अनि For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 463