Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१]
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथमं कांडम्.
व्योमयानं विमानो ऽस्त्री नारदाद्याः सुरर्षयः ।। स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ५१ ॥ मंदाकिनी विनंगा स्वर्णदी सुरदीर्घिका ॥ मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ५२ ॥ पंचैते देवतरवो मंदारः पारिजातकः ॥ संतानः कल्पवृक्षश्च पुंसि वा हरिचंदनम् ॥ ५३ ॥ सनत्कुमारो वैधात्रः स्ववैद्यावश्विनीसुतौ ॥ नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५४ ॥ स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।। हा माद्या गंधर्वास्त्रिदिवौकसाम् ॥ ५५ ॥
For Private And Personal
११
व्योमयानं विमानः द्वे विमानस्य । तत्र विमानः पुंसि क्लीबे च । नारददेवलाद्या : सुरर्षयः एकं । सुधर्मा देवसभा इति द्वे देवसभायाः । पीयूषं “पेयूतं" अमृतं सुधा त्रीण्यमृतस्य ॥ ५१ ॥ मंदाकिनी वियगंगा स्वर्णदी सुरदीर्घिका चत्वारि मंदाकिन्याः | मेरुः सुमेरुः हेमाद्रिः रत्नसानुः सुरालयः पंचकं कनकाचलस्य ॥ ५२ ॥ मंदारः पारिजातकः संतानः कल्पवृक्षः हरिचंदनं पंचैते देवतरवः । तत्र हरिचंदनं क्लीबपुंसोः ॥ ५३ ॥ सनत्कुमारः “सनात्कुमारः " वैधात्रः द्वे सनकादेः । स्वर्वैद्यौ अश्विनीसुतौ नासत्यौ अश्विनौ दस्त्रौ आश्विनेयौ इति षट् अश्विनीकुमारयोः । तावुभौ यमलौ अतएव द्विवचनं ॥ ५४ ॥ उर्वशी मुखाः उर्वशीमेन कारभेत्याद्याः अप्सरसः स्वर्वेश्या इति चोच्यंते द्वे । घृताची मेनका रंभा उर्वशी च तिलोत्तमा । सुकेशी मंजुघोषाद्याः कथ्यते ऽप्सरसो बुधैः । अत्र अप्सरसः शब्द एकस्यामपि व्यक्तौ बहुवचनांतः स्त्रीलिंगः | अप्सरा इत्यपि प्रयोगदर्शनात्प्रायशो बहुत्वं । हाहा: हूहूः एवमाद्यौ येषां ते तथा दिवौकसां देवानां गंधर्वाः गायनाः एकैकं । आद्यशब्दात्तुंबुरुवि1 श्वावसुचित्ररथप्रभृतयः । हाहाशब्दस्य रूपं तु हाहा: हाह्रौ हाहा: हाहां हाहौ हाहान् हाहाभ्यामित्यादि “ हाहा: सांतो ऽपि गंधर्वो हाहसि प्रोक्त इति रत्नकोशात् " हूहूशव्दस्य द्वितीयैकवचनं हूहूमित्यादि द्रष्टव्यम् । “हहा इत्यादिन्हस्व: हुहु इत्युभयन्हस्वश्च गीत माधुर्यसंपन्नौ विख्यातौ च हहाहुहू इति व्यासोक्तेः” ॥५५॥ अग्निः वैश्वानरः

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 463