Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सटीकामरकोशस्य
[स्वर्गवर्ग:
विद्याधरॉप्सरोयक्षरक्षो गंधर्वकिन्नराः ॥ पिशाचो गुहाकः सिद्धो भृतो ऽमी देवयोनयः ॥ ११ ॥ असुंरा दैत्यदैतेयदनुजेंद्रारिदानवाः ॥ शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ सर्वज्ञः सुतो बुद्ध धर्मराजस्तथागतः ॥ समंतभद्रो भगवान्मारजिल्लो कजिज्जिनः ॥ १३॥ भिज्ञो दशवलोsयवादी विनायकः ॥
मुनींद्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः ॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ॥ गौतमश्चाबंधु मायादेवीसुतश्च सः ॥ १५ ॥
बेरादयः । रक्षांसि मायाविनो लंकादिवासिनः । गंधर्वास्तुंबुरुप्रभृतयो देवगायनाः । किन्नरा अश्वादिमुखा नराकृतयः । पिशाचाः पिशिताशा भूतविशेषाः । गुह्यका: मणिभद्रादयः । " निधिं रक्षति ये रक्षास्ते स्युर्गुह्यकसंज्ञकाः । " सिद्धाः विश्वावसुप्रभृतयः । भूताः बालग्रहादयो रुद्रानुचरा वा । जातावेकवचनानि । एते देवयोनि1 संज्ञका इत्यर्थः । विद्याधरोऽप्सर इत्यपि पाठः । भिन्नलिंगत्वादग्रे ऽनभिधानादसमास इति रामाश्रम्याम् ॥ ११॥ असुराः “ आसुराः” वैत्याः दैतेयाः दनुजाः इंद्रारयः दानवाः शुक्रशिष्याः दितिसुताः पूर्वदेवाः सुरद्विषः । इति दश नामान्यसुराणाम् ॥१२॥ सर्वज्ञः सुगंतः बुद्धः धर्मराजः तथागतः । तथा सत्यं गतं ज्ञातं यस्य । समंतभद्र : भगवान् मारजित् लोकजित् जिनः || १३|| षडभिज्ञः दशबलः अद्वयवादी विनायकः मुनींद्रः श्रीघनः शास्ता मुनिः इत्यष्टादश बुद्धस्य । शाक्यमुनिः ॥ १४ ॥ शाक्यसिंहः सर्वार्थसिद्धः शौद्धीदनिः गौतमः । गोतमस्य शिष्यः गौतमः । तं येदमित्यण् । अर्कबंधुः मायादेवीसुतः । इति सप्त नामानि बुद्धावांतरभेदस्य शाक्यमुनेः । षडभिज्ञः । षटू अभितः ज्ञायमानानि यस्य । दिव्यं चक्षुः श्रोत्रं परिचितज्ञानं पूर्वनिवासानुस्मृतिः आत्मज्ञानं विग्रगमनं कार्यव्यूहादिसिद्धिश्चेति । इमानि षट् ज्ञायमानानि दश बलानि यस्य दशबलः । दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्धबलानि चेति ॥ १५ ॥ ब्रह्मा आत्मभूः सुरज्येष्ठः परमेष्ठी
For Private And Personal

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 463