________________
Shri Mahavir Jain Aradhana Kendra
१]
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्रथमं कांडम्
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।। सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥ आदितेया दिविषदो लेखा अदितिनंदनाः ॥ आदित्या ऋभवो ऽस्मा अमर्त्या अमृतधसः ॥ ८ ॥ बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ॥ वृंदारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥ आदित्य विश्ववसवस्तुषिताभास्वरानिलाः ॥ महाराजिकसाध्याच रुद्राश्र गणदेवताः ॥ १० ॥
त्रिदिवः त्रिदशालयः सुरलोकः द्यौः द्यौः त्रिविष्टपम् । इति नव नामानि स्वर्गस्य । तत्र स्वरित्यव्ययं स्वरादिनिपातमव्ययमिति सूत्रात् । लिंगसंख्याकारकाभाववदित्यर्थः । द्योदिव द्वे स्त्रीलिंगे । द्यौर्गोवदाद्यः । द्यौः दिवौ दिवः द्युभ्यामित्याद्यपरः । त्रिविष्टपं क्लोबे नपुंसके एव । त्रिदशालयादयः सुरसदनादिशब्दोपलक्षकाः एवमुत्तरत्रापि अर्थसाम्येन पर्यायांतराणि स्वयमूह्यानि । स्त्रियौ क्लीवे इत्यपि पाठः ॥ ६ ॥ अमराः निर्जराः देवाः त्रिदशाः विबुधाः सुराः सुपर्वाणः सुमनसः त्रिदिवेशाः दिवौकसः “दिवोकसः " ॥ ७ ॥ आदितेयाः दिविषदः लेखाः अदितिनंदनाः आदित्याः ऋभवः अस्वप्नाः अमर्त्याः अमृतांधसः || ८ || बहिर्मुखाः । बर्हिरग्निः मुखं येषाम् । ऋतुभुजः १ गीर्वाणाः “ गीर्वाणाः” दानवारयः वृंदारकाः दैवतानि देवताः । इति षड्विंशति नामानि देवानाम् । व्यक्तिबाहुल्याद्बहुवचनप्रयोगः । विकल्पेन दैवतशब्दः पुंसि । यथा देवत ऽमिदं दैवतोयमिति । देव एव देवता स्वार्थे तलू ॥९॥ अथ संघचारिण आह । आदित्येति । आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्ट संख्याताः षट्त्रिंशन्तुषिता सुताः || १|| आभाः स्वराश्चतुःषष्टिर्वाताः पंचाशदूनकाः । महाराजिकनामानो द्वे शते विंशविस्तथा ॥ २ ॥ साध्या द्वादश विख्याता रुद्रा एकादश स्मृताः || आदित्या द्वादशे । विश्वे दर्श । वसवोऽष्टौ । तुषिताः षत्रिंशत् । आभास्वराः चतुःषष्टिः । अनिला एani चाशत् | महाराजिकाः विंशत्यधिकशतं द्वयं । साध्या द्वादशे । रुद्रा एकदश । एता गणदेवताः । अत्र. तुषिताद्या गणा बौद्धपातंजलादौ द्रष्टव्याः ॥ १० ॥ देवयोनीना | विद्येति । विद्याधरा जीमूतवाहनादयः । अप्सरसो देवांगनाः । यक्षा: कु
For Private And Personal