Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ सटीकामरकोशस्य प्रथमं कांडम्. यस्य ज्ञानदयासिंधोरगाधस्यानघा गुणाः॥ सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ समाहृत्यान्यतैत्राणि संक्षिप्तः प्रतिसंस्कृतैः॥ संपूर्णमुच्यते वगैर्नामलिंगानुशासनम् ॥२॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ स्त्रीनपुंसकं ज्ञेयं तद्विशेषविधेः कचित् ॥ ३॥ श्रीगणेशाय नमः ॥ वंदे तं परमानंदं वामार्धेनोमया युतम् ॥ रज्जौ भुजंगवद्यत्र विवरीवृत्यते जगत् ॥ इह खलु श्रीमदमरसिंहश्चिकीर्षितस्य नामलिंगानुशासनस्य निर्विघ्नपरिसमाप्त्यर्थं कृतं मंगलं ग्रंथादौ शिष्यशिक्षार्थं निबध्नाति । यस्यति । भो धीराः अगाधस्यातिगंभीरस्य ज्ञानकरुणयोः समुद्रस्य यस्य अनघा निर्मला गुणाःक्षांत्यादयः संति सो ऽक्षयः श्रिये संपत्तये अमृताय मोक्षार्थ च भवद्भिः सेव्यतामाराध्यताम् ॥१॥ चिकीर्षितं प्रतिजानीते । समाहृत्येति । अन्येषां तंत्राणि शास्त्रांतराणि “ नामलिंगानुशासनानि" समाहृत्य एकत्र कृत्वा संक्षिप्तैः अल्पविस्तरबव्हथैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययविचारेण कृतसंस्कारैः वगैः सजातीयसमूहैः संपूर्ण सांगोपांगं नाम्नां स्वरित्यादीनां लिंगानां च स्त्रीपुंनपुंसकाख्यानां अनुशासनं व्युत्पादकं शास्त्रमुच्यते मयेति शेषः ॥ २॥ अर्थ वक्ष्यमाणशास्त्रस्य तावत्परिभाषामाह त्रिभिः श्लोकैः। प्रायश इति । अत्र प्रायशः बाहुल्येन रूपभेदेन आकारविशेषेण स्त्रीपुंनपुंसकं ज्ञेयम्। यथा । लक्ष्मीः पद्मालया पद्मा। पिनाको ऽजगवं धनुः । तथा कुत्रचित्साहचर्याच्छब्दांतरसान्निध्याल्लिंगं ज्ञेयम् । यथा । अश्वयुगश्विनी । ब्रह्मात्मभूः सुरज्येष्ठः । वियद्विष्णुपदम् । अत्र संदिग्धानि अश्वयुग्ब्रह्मवियंति अश्विन्यात्मभूविष्णुपदसाहचर्यात्स्त्री For Private And Personal

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 463